कठोपनिषद्भाष्यम्
द्वितीयोऽध्यायःपञ्चमी वल्ली
आनन्दगिरिटीका (काठक)
 
ऊर्ध्वं प्राणमुन्नयति अपानं प्रत्यगस्यति ।
मध्ये वामनमासीनं विश्वे देवा उपासते ॥ ३ ॥
आत्मनः स्वरूपाधिगमे लिङ्गमुच्यते — ऊर्ध्वं हृदयात् प्राणं प्राणवृत्तिं वायुम् उन्नयति ऊर्ध्वं गमयति । तथा अपानं प्रत्यक् अधः अस्यति क्षिपति यः इति वाक्यशेषः । तं मध्ये हृदयपुण्डरीकाकाशे आसीनं बुद्धावभिव्यक्तं विज्ञानप्रकाशनं वामनं वननीयं सम्भजनीयं विश्वे सर्वे देवाः चक्षुरादयः प्राणाः रूपादिविज्ञानं बलिमुपाहरन्तो विश इव राजानम् उपासते तादर्थ्येनानुपरतव्यापारा भवन्तीत्यर्थः । यदर्था यत्प्रयुक्ताश्च सर्वे वायुकरणव्यापाराः, सोऽन्यः सिद्ध इति वाक्यार्थः ॥

येयं प्रेते विचिकित्सा मनुष्य इति या पूर्वं विचिकित्सा प्रश्नमूलत्वेनोद्भाविता साऽपि निर्मूलेत्येतद्दर्शयितुं देहव्यतिरिक्तात्मास्तित्वं साधयति -

आत्मनः स्वरूपाधिगम इत्यादिना ।

सर्वे प्राणकरणव्यापाराश्चेतनार्थास्तत्प्रयुक्ता भवितुमर्हन्ति जडचेष्टात्वाद्रथचेष्टावदित्यर्थः ॥ ३ ॥