अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः ।
देहाद्विमुच्यमानस्य किमत्र परिशिष्यते । एतद्वै तत् ॥ ४ ॥
किञ्च, अस्य शरीरस्थस्य आत्मनः विस्रंसमानस्य भ्रंशमानस्य देहिनो देहवतः । विस्रंसनशब्दार्थमाह — देहाद्विमुच्यमानस्येति । किमत्र परिशिष्यते प्राणादिकलापे न किञ्चन परिशिष्यते ; अत्र देहे पुरस्वामिविद्रवण इव पुरवासिनां यस्यात्मनोऽपगमे क्षणमात्रात्कार्यकरणकलापरूपं सर्वमिदं हतबलं विध्वस्तं भवति विनष्टं भवति, सोऽन्यः सिद्ध आत्मा ॥