कठोपनिषद्भाष्यम्
द्वितीयोऽध्यायःपञ्चमी वल्ली
आनन्दगिरिटीका (काठक)
 
न प्राणेन नापानेन मर्त्यो जीवति कश्चन ।
इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ ॥ ५ ॥
स्यान्मतं प्राणापानाद्यपगमादेवेदं विध्वस्तं भवति न तु व्यतिरिक्तात्मापगमात् , प्राणादिभिरेवेह मर्त्यो जीवतीति ; नैतदस्ति — न प्राणेन नापानेन चक्षुरादिना वा मर्त्यः मनुष्यो देहवान् कश्चन जीवति न कोऽपि जीवति । न ह्येषां परार्थानां संहत्यकारित्वाज्जीवनहेतुत्वमुपपद्यते । स्वार्थेनासंहतेन परेण संहतानामवस्थानं न दृष्टं केनचिदप्रयुक्तं यथा गृहादीनां लोके ; तथा प्राणादीनामपि संहतत्वाद्भवितुमर्हति । अत इतरेण तु इतरेणैव संहतप्राणादिविलक्षणेन तु सर्वे संहताः सन्तः जीवन्ति प्राणान्धारयन्ति । यस्मिन् संहतविलक्षणे आत्मनि सति परस्मिन् एतौ प्राणापानौ चक्षुरादिभिः संहतौ उपाश्रितौ यस्यासंहतस्यार्थे प्राणापानादिः सर्वं व्यापारं कुर्वन्वर्तते संहतः सन् स ततोऽन्यः सिद्ध इत्यभिप्रायः ॥

अन्यथासिद्धिं शङ्कते -

स्यान्मतमिति ।

ननु जीव प्राणधारण इति धातुस्मरणाच्छरीरस्य जीवनं नाम प्राणधारणं प्राणसंयोगश्च प्राणधारणं कुण्डे दधिधारणवत्तत्र च प्राणस्यैव हेतुत्वं संयोगाश्रयत्वात् । कथमुच्यते जीवनहेतुत्वं प्राणादीनां न सम्भवतीति तत्राऽऽह -

स्वार्थेनासंहतेनेति ।

कादाचित्कस्य प्राणशरीरसंयोगस्य स्वभावतोऽनुपपत्तेः सङ्घातस्य च लोके परप्रयुक्तस्यैव दर्शनाद्भवितव्यमन्येन सङ्घातप्रयोजकेनेत्यर्थः ॥ ५ ॥