कठोपनिषद्भाष्यम्
द्वितीयोऽध्यायःपञ्चमी वल्ली
आनन्दगिरिटीका (काठक)
 
अग्निर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव ।
एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च ॥ ९ ॥
अतः कुतार्किकपाषण्डबुद्धिविचालितान्तःकरणानां प्रमाणोपपन्नमप्यात्मैकत्वविज्ञानमसकृदुच्यमानमप्यनृजुबुद्धीनां ब्राह्मणानां चेतसि नाधीयत इति तत्प्रतिपादने आदरवती पुनः पुनराह श्रुतिः — अग्निः यथा एक एव प्रकाशात्मा सन् भुवनम् , भवन्त्यस्मिन्भूतानीति भुवनम् , अयं लोकः, तमिमं प्रविष्टः अनुप्रविष्टः, रूपं रूपं प्रति, दार्वादिदाह्यभेदं प्रतीत्यर्थः, प्रतिरूपः तत्र तत्र प्रतिरूपवान् दाह्यभेदेन बहुविधो बभूव ; एक एव तथा सर्वभूतान्तरात्मा रूपं रूपं सर्वेषां भूतानामभ्यन्तर आत्मा अतिसूक्ष्मत्वाद्दार्वादिष्विव सर्वदेहं प्रति प्रविष्टत्वात् प्रतिरूपो बभूव बहिश्च स्वेनाविकृतेन रूपेण आकाशवत् ॥

ननु जन्ममरणकारणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च । पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाच्चेति । नानात्मानो व्यवस्थात इत्यनेकतार्किकबुद्धिविरोधात्सर्वपुरवर्त्येक एवाऽऽत्मेत्यत्र न चित्तस्थैर्यं सम्भवतीत्याशङ्क्यौपाधिकभेदसाधने सिद्धसाधनं स्वाभाविकभेदसाधने चानैकान्तिकत्वं दर्शयितुं प्रक्रमत इत्याह -

अनेकतार्किकेत्यादिना ।

प्रतिरूपः उपाधिसदृशश्चतुष्कोणत्वादिधर्मके हि दारुणि तद्रूपो वह्निरपि लक्ष्यत इत्यर्थः ॥ ९ - १० ॥