कठोपनिषद्भाष्यम्
द्वितीयोऽध्यायःपञ्चमी वल्ली
आनन्दगिरिटीका (काठक)
 
तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुखम् ।
कथं नु तद्विजानीयां किमु भाति विभाति वा ॥ १४ ॥
यत्तदात्मविज्ञानसुखम् अनिर्देश्यं निर्देष्टुमशक्यं परमं प्रकृष्टं प्राकृतपुरुषवाङ्मनसयोरगोचरमपि सन्निवृत्तैषणा ये ब्राह्मणास्ते तदेतत्प्रत्यक्षमेवेति मन्यन्ते, कथं नु केन प्रकारेण तत्सुखमहं विजानीयाम् इदमित्यात्मबुद्धिविषयमापादयेयं यथा निवृत्तविषयैषणा यतयः । किमु तत् भाति दीप्यते प्रकाशात्मकं तत् यतोऽस्मद्बुद्धिगोचरत्वेन विभाति विस्पष्टं दृश्यते किं वा नेति ॥

विद्वदनुभवोऽपि परमानन्दे प्रमाणमित्याह -

यत्तदात्मविज्ञानमिति ।

तस्मादसम्भाविततया न जिहासितव्यं परमात्मदर्शनं किन्तु श्रद्दधानतया विचारयितव्यमेवेत्याह -

कथं न्विति ॥ १४ - १५ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचिते काठकोपनिषद्भाष्यव्याख्याने द्वितीयाध्याये द्वितीयवल्लीभाष्यटीका समाप्ता ॥