कठोपनिषद्भाष्यम्
द्वितीयोऽध्यायःषष्ठी वल्ली
आनन्दगिरिटीका (काठक)
 
तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम् ।
अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ ॥ ११ ॥
ताम् ईदृशीं तदवस्थां योगमिति मन्यन्ते वियोगमेव सन्तम् । सर्वानर्थसंयोगवियोगलक्षणा हीयमवस्था योगिनः । एतस्यां ह्यवस्थायाम् अविद्याध्यारोपणवर्जितस्वरूपप्रतिष्ठ आत्मा स्थिरामिन्द्रियधारणां स्थिरामचलामिन्द्रियधारणां बाह्यान्तःकरणानां धारणमित्यर्थः । अप्रमत्तः प्रमादवर्जितः समाधानं प्रति नित्यं यत्नवान् तदा तस्मिन्काले, यदैव प्रवृत्तयोगो भवतीति सामर्थ्यादवगम्यते । न हि बुद्ध्यादिचेष्टाभावे प्रमादसम्भवोऽस्ति । तस्मात्प्रागेव बुद्ध्यादिचेष्टोपरमात् अप्रमादो विधीयते । अथवा, यदैव इन्द्रियाणां स्थिरा धारणा, तदानीमेव निरङ्कुशमप्रमत्तत्वमित्यतोऽभिधीयते अप्रमत्तस्तदा भवतीति । कुतः ? योगो हि यस्मात् प्रभवाप्ययौ उपजनापायधर्मक इत्यर्थः । अतः अपायपरिहारायाप्रमादः कर्तव्य इत्यभिप्रायः ॥

वियोगमेव सन्तं योगमिति विरुद्धलक्षणया मन्यन्त इत्युक्तं तत्स्फुटयति -

सर्वानर्थेति ।

उपसंहृतं मनो यदि सुषुप्तिं गच्छेत्तदा साऽनर्थबीजावस्था भवति । तद्व्यावृत्तये पूर्णं ब्रह्मास्मीत्यावृत्तौ योजयेदावृतौ नियुक्तं विषयेषु विक्षिप्तं चेत्स्यात्तद्दोषदर्शनेन ततोऽपि व्यावर्तयेत् । व्यावृत्तमपि ततस्तटस्थं चेत्स्यात्साऽपि तावत्कषायावस्था ; ततो निरुद्धं मनो यदा न जागर्ति न स्वपिति न चान्तरालावस्थं भवति पूर्णब्रह्मावभासकतयैव क्षीणं भवति तदा सर्वानर्थवियोगलक्षणा साऽवस्था भवतीत्यर्थः ।

योगारम्भकाले प्रमादवर्जनं विधेयतया व्याख्यायानुवादपरतया व्याचष्टे -

अथवेति ।

विधिपक्षे हेतुं पृच्छति -

कुत इति ॥ ११ ॥