इष आभीक्ष्ण्ये गतौ चेति धात्वन्तरसम्भवे कथमिच्छार्थस्यैव व्याख्यानमित्याशङ्क्याऽऽह –
इषेरिति ।
आभीक्षण्यं पौनःपुन्यं तद्विषयताया गतिविषयताया वा मनसोऽनभिप्रेतत्वान्मनःप्रवर्तकविशेषस्यैव बुभुत्सितत्वादित्यर्थः । इट्प्रयोगे सति गुणेन भवितव्यम् । तदैषितमिति स्यात्तदभावाच्छान्दसत्वाभिधानं न तु धातोरनिट्त्वादनुबन्धस्य विकल्पविधानादन्वेषितमन्विष्टं वेति वैकल्पिकप्रयोगादिदर्शनादिति ।
इषितं प्रेषितमिति पदद्वयस्यार्थवत्त्वमाह –
तत्र प्रेषितमित्यादिना ।
इच्छामात्रेणेति ।
प्रयत्नमन्तरेण सन्निधिमात्रेणेति व्याख्यातं नेदं व्याख्यानमपि शोभते अपर्यायशब्दभेदस्यार्थभेदाव्यभिचारादित्याह –
अपि चेति ।
त्वदुक्तोऽयमर्थविशेषो न घटते सङ्घातस्यैवेच्छादिभिः प्रवर्तकत्वसिद्धेः प्रश्नानुपपत्तिप्रसङ्गादित्याह –
न प्रश्नेति ।
मनसः स्वातन्त्र्यात्स्वव्यतिरिक्तप्रवर्तकसम्भावनाभावात्प्रश्नो न घटत इत्याक्षिप्य समाधत्ते –
ननु स्वतन्त्रमित्यादिना ।
अत्युग्रदुःखे चेति ।
अद्यतनीनदुःखे द्यूतादिकार्ये ॥ १ ॥