अष्टसु स्थानेष्विति ।
“अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा ।
जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च ॥”(वासि़ष्ठशिक्षा) इत्येतेष्वाकाशप्रदेशेष्वाश्रितमित्यनेनाऽऽकाशोपादानत्वं सूचितम् ।
आग्नेयमिति ।
अग्निदेवताकमित्यर्थः ।
न केवलं करणं वागुच्यते वर्णाश्चोच्यन्त इत्याह –
वर्णाश्चेति ।
तदुक्तम् – “यावन्तो यादृशा ये च यदर्थप्रतिपादकाः ।
वर्णाः प्रज्ञातसामर्थ्यास्ते तथैवावबोधकाः ॥”(न्यायमञ्जरी) गौरिति पदं गकारौकारविसर्जनीया एव क्रमविशेषावच्छिन्ना इति मीमांसकाद्यनुसारेणोक्तम् ।
स्फोटवादिनोऽनुसारेणाऽऽह –
तदभिव्यङ्ग्य इति ।
स्फुट्यते व्यज्यते वर्णैरिति स्फोटः पदादिबुद्धिप्रमाणकः । एकरूपाया बुद्धेरनेकवर्णावलम्बनत्वासम्भवादिति भावः ।
उक्ते वाक्यार्थे श्रुतिसम्मतिमाह –
अकार इति ।
अकारप्रधानोङ्कारोपलक्षिता स्फोटाख्या चिच्छक्तिः सर्वा वाक्सैषा स्पर्शान्तस्थोष्मभिर्व्यज्यमाना । कादयो मावसानाः स्पर्शा, यरलवा अन्तस्थाः, शषसहा ऊष्माणस्तैः क्रमविशेषावच्छिन्नैर्व्यज्यमाना नानारूपा विवर्तते । मितमृगादि पादावसाननियताक्षरत्वात् । अमितं यजुराद्यनियताक्षरपादावसानत्वात् । स्वरः साम । गीतिप्राधान्यात् । सत्यं यथादृष्टार्थवचनम् । अनृतं तद्विपरीतम् । करणं वागिन्द्रियं गुण उपसर्जनं यस्याः सा करणगुणवती पुरुषेषु चेतनेषु या वाक्शक्तिः सा घोषेषु वर्णेषु प्रतिष्ठिता तद्व्यङ्ग्यत्वादित्यर्थः ।
तदेवेत्येवकारस्य कृत्यमाह –
यैर्वागाद्युपाधिभिरिति ।
नियमार्थमिति ।
पक्षेऽनात्मन्यपि ब्रह्मबुद्धौ प्राप्तायामात्मैव ब्रह्मेति बुद्धिं नियन्तुमित्यर्थः । अन्यस्मिन्नुपास्ये या ब्रह्मबुद्धिस्तन्निवृत्त्यर्थं वा पुनरब्रह्मत्वमुच्यत इत्यर्थः । सर्वं स्पष्टमिति न व्याख्यातम् ॥ ५ - ६ – ७ - ८ ॥