केनोपनिषत्पदभाष्यम्
आनन्दगिरिटीका (केन पदभाष्य)
 
इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः ।
भूतेषु भूतेषु विचित्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥ ५ ॥
कष्टा खलु सुरनरतिर्यक्प्रेतादिषु संसारदुःखबहुलेषु प्राणिनिकायेषु जन्मजरामरणरोगादिसम्प्राप्तिरज्ञानात् । अतः इह एव चेत् मनुष्योऽधिकृतः समर्थः सन् यदि अवेदीत् आत्मानं यथोक्तलक्षणं विदितवान् यथोक्तेन प्रकारेण, अथ तदा अस्ति सत्यं मनुष्यजन्मन्यस्मिन्नविनाशोऽर्थवत्ता वा सद्भावो वा परमार्थता वा सत्यं विद्यते । न चेदिहावेदीदिति, न चेत् इह जीवंश्चेत् अधिकृतः अवेदीत् न विदितवान् , तदा महती दीर्घा अनन्ता विनष्टिः विनाशनं जन्मजरामरणादिप्रबन्धाविच्छेदलक्षणा संसारगतिः । तस्मादेवं गुणदोषौ विजानन्तो ब्राह्मणाः भूतेषु भूतेषु सर्वभूतेषु स्थावरेषु चरेषु च एकमात्मतत्त्वं ब्रह्म विचित्य विज्ञाय साक्षात्कृत्य धीराः धीमन्तः प्रेत्य व्यावृत्य ममाहम्भावलक्षणादविद्यारूपादस्माल्लोकात् उपरम्य सर्वात्मैकभावमद्वैतमापन्नाः सन्तः अमृता भवन्ति ब्रह्मैव भवन्तीत्यर्थः । ‘स यो ह वै तत्परं ब्रह्म वेद ब्रह्मैव भवति’ (मु. उ. ३ । २ । ९) इति श्रुतेः ॥

उत्तरवाक्यस्यापेक्षितमर्थमाह –

कष्टा खल्विति ।

लौकिकमपि सत्यम् । चिरं जीवनं धनवत्त्वम् । सद्भावः साधुभावः ख्यातिः । एतदपि सर्वं ब्रह्मविदो भवतीति स्तुत्यर्थमुच्यते । परमार्थतो ब्रह्मरूपस्थितिस्तु फलमवश्यं भवतीत्यर्थः ॥ १३ - ५ ॥

इति द्वितीयखण्डः॥