केनोपनिषत्पदभाष्यम्
आनन्दगिरिटीका (केन पदभाष्य)
 
अथाध्यात्मं यदेतद्गच्छतीव च मनोऽनेन चैतदुपस्मरत्यभीक्ष्णं सङ्कल्पः ॥ ५ ॥
अथ अनन्तरम् अध्यात्मं प्रत्यगात्मविषय आदेश उच्यते । यदेतत् गच्छतीव च मनः । एतद्ब्रह्म ढौकत इव विषयीकरोतीव । यच्च अनेन मनसा एतत् ब्रह्म उपस्मरति समीपतः स्मरति साधकः अभीक्ष्णं भृशम् । सङ्कल्पश्च मनसो ब्रह्मविषयः । मनउपाधिकत्वाद्धि मनसः सङ्कल्पस्मृत्यादिप्रत्ययैरभिव्यज्यते ब्रह्म, विषयीक्रियमाणमिव । अतः स एष ब्रह्मणोऽध्यात्ममादेशः । विद्युन्निमेषणवदधिदैवतं द्रुतप्रकाशनधर्मि, अध्यात्मं च मनःप्रत्ययसमकालाभिव्यक्तिधर्मि, इत्येष आदेशः । एवमादिश्यमानं हि ब्रह्म मन्दबुद्धिगम्यं भवतीति ब्रह्मण आदेश उपदेशः । न हि निरुपाधिकमेव ब्रह्म मन्दबुद्धिभिराकलयितुं शक्यम् ॥

अधुना प्रत्यगात्मतया ब्रह्मणो यथाऽभिव्यक्तिः स्यात्तथोपदिश्यत इत्याह –

अथानन्तरमिति ।

एतत्प्रकृतं ज्योतीरूपं ब्रह्म प्रति मदीयं मनो गच्छद्वर्तत इति चिन्तयेदिति य उपदेशः स आध्यात्मिकोऽभीक्ष्णं पौनःपुन्येन मम मनसः सङ्कल्पो ब्रह्मविषय एवेति ध्यायतः प्रत्यग्भूतब्रह्माभिव्यक्तिः स्यादित्याह –

मनउपाधिकत्वाद्धीति ।

उक्तमर्थं सङ्क्षिप्याऽऽह –

विद्युन्निमेषणवदिति ।

सगुणब्रह्मोपासनमैश्वर्यफलकमुक्तम् ॥ ३० - ५ ॥ ३१ - ६ ॥