केनोपनिषत्पदभाष्यम्
आनन्दगिरिटीका (केन पदभाष्य)
 
तस्यै तपो दमः कर्मेति प्रतिष्ठा वेदाः सर्वाङ्गानि सत्यमायतनम् ॥ ८ ॥
यामिमां ब्राह्मीमुपनिषदं तवाग्रेऽब्रूमेति तस्यै तस्या उक्ताया उपनिषदः प्राप्त्युपायभूतानि तपआदीनि । तपः कायेन्द्रियमनसां समाधानम् । दमः उपशमः । कर्म अग्निहोत्रादि । एतैर्हि संस्कृतस्य सत्त्वशुद्धिद्वारा तत्त्वज्ञानोत्पत्तिर्दृष्टा । दृष्टा ह्यमृदितकल्मषस्योक्तेऽपि ब्रह्मण्यप्रतिपत्तिर्विपरीतप्रतिपत्तिश्च, यथेन्द्रविरोचनप्रभृतीनाम् । तस्मादिह वातीतेषु वा बहुषु जन्मान्तरेषु तपआदिभिः कृतसत्त्वशुद्धेर्ज्ञानं समुत्पद्यते यथाश्रुतम् ; ‘यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः’ (श्वे. उ. ६ । २३) इति मन्त्रवर्णात् । ‘ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः’ (मो. २०४ । ८) इति स्मृतेश्च । इतिशब्दः उपलक्षणत्वप्रदर्शनार्थः । इति एवमाद्यन्यदपि ज्ञानोत्पत्तेरुपकारकम् ‘अमानित्वमदम्भित्वम्’ (भ. गी. १३ । ७) इत्याद्युपदर्शितं भवति । प्रतिष्ठा पादौ पादाविवास्याः ; तेषु हि सत्सु प्रतितिष्ठति ब्रह्मविद्या प्रवर्तते, पद्भ्यामिव पुरुषः । वेदाश्चत्वारः सर्वाणि चाङ्गानि शिक्षादीनि षट् कर्मज्ञानप्रकाशकत्वाद्वेदानां तद्रक्षणार्थत्वादङ्गानां प्रतिष्ठात्वम् । अथवा, प्रतिष्ठाशब्दस्य पादरूपकल्पनार्थत्वाद्वेदास्त्वितराणि सर्वाङ्गानि शिरआदीनि । अस्मिन्पक्षे शिक्षादीनां वेदग्रहणेनैव ग्रहणं कृतं प्रत्येतव्यम् । अङ्गिनि हि गृहीतेऽङ्गानि गृहीतान्येव भवन्ति, तदायत्तत्वादङ्गानाम् । सत्यम् आयतनं यत्र तिष्ठत्युपनिषत् तदायतनम् । सत्यमिति अमायिता अकौटिल्यं वाङ्मनःकायानाम् । तेषु ह्याश्रयति विद्या ये अमायाविनः साधवः, नासुरप्रकृतिषु मायाविषु ; ‘न येषु जिह्ममनृतं न माया च’ (प्र. उ. १ । १६) इति श्रुतेः । तस्मात्सत्यमायतनमिति कल्प्यते । तपआदिष्वेव प्रतिष्ठात्वेन प्राप्तस्य सत्यस्य पुनरायतनत्वेन ग्रहणं साधनातिशयत्वज्ञापनार्थम् । ‘अश्वमेधसहस्रं च सत्यं च तुलया धृतम् । अश्वमेधसहस्राच्च सत्यमेकं विशिष्यते’ (महाभा. आ. ७४ । १०३) इति स्मृतेः ॥

तच्छब्दापेक्षितं यच्छब्दं पूरयति –

यामिमामिति ।

प्राप्तिः सगुणविषया निर्गुणब्रह्मात्मविषया चेत्यर्थः ।

पादरूपककल्पनेति ।

प्रसिद्धपादसामान्यस्य कल्पित्वादितरैरप्यङ्गैः कल्पनारूपैर्भवितव्यमित्यर्थः ।

तस्यै तपो दमः कर्मेत्यत्रत्येतिशब्दस्योपलक्षणार्थत्वात्सत्यमपि सङ्ग्रहीतव्यं कथं पृथगुच्यत इत्याशङ्क्याऽऽह –

तपआदिष्वेवेति ॥ ३३ - ८ ॥