केनोपनिषत्पदभाष्यम्
चतुर्थः खण्डः
आनन्दगिरिटीका (केन पदभाष्य)
 
यो वा एतामेवं वेदापहत्य पाप्मानमनन्ते स्वर्गे लोके ज्येये प्रतितिष्ठति प्रतितिष्ठति ॥ ९ ॥
यो वै एतां ब्रह्मविद्याम् ‘केनेषितम्’ (के. उ. १ । १) इत्यादिना यथोक्ताम् एवं महाभागाम् ‘ब्रह्म ह देवेभ्यः’ (के. उ. ३ । १) इत्यादिना स्तुतां सर्वविद्याप्रतिष्ठां वेद । ‘अमृतत्वं हि विन्दते’ (के. उ. २ । ४) इत्युक्तमपि ब्रह्मविद्याफलमन्ते निगमयति — अपहत्य पाप्मानम् अविद्याकामकर्मलक्षणं संसारबीजं विधूय अनन्ते अपर्यन्ते स्वर्गे लोके सुखात्मके ब्रह्मणीत्येतत् । अनन्ते इति विशेषणान्न त्रिविष्टपे अनन्तशब्द औपचारिकोऽपि स्यादित्यत आह — ज्येये इति । ज्येये ज्यायसि सर्वमहत्तरे स्वात्मनि मुख्ये एव प्रतितिष्ठति । न पुनः संसारमापद्यत इत्यभिप्रायः ॥

सगुणविद्यायाः क्रममुक्त्यर्थत्वात्क्रमेण प्राप्यं यत्कैवल्यं निर्गुणविद्याफलं तत्पूर्वोक्तमिहोपसंह्रियत इत्याह –

यो वा एतामित्यादिना ॥ ३४ – ९ ॥

इति चतुर्थखण्डः ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यश्रीमदानन्दज्ञानकृतः श्रीमच्छाङ्करतलवकारोपनिषदपरपर्यायकेनोपनिषत्पदभाष्यटिप्पणं सम्पूर्णम् ॥