एवमुपनिषदारम्भं सम्भाव्य वाक्यस्यार्थं सङ्गृह्णाति –
प्रवृत्तिलिङ्गादिति ।
शिष्याचार्ययोः प्रश्नप्रतिवचनरूपा श्रुतिः सुखप्रतिपत्त्यर्था प्रवृत्ता ।
तत्र प्रश्नः किं ज्ञातेऽज्ञाते वेतिचोद्यनिरासाय सामान्यतो ज्ञातेऽपि विशेषतश्चाज्ञाते सम्भवति विकल्पकरणविदिति सूत्रितमेतद्विवृणोति –
रथादीनां हीति ।
मनआदीनामेव चेतनत्वादचेतनप्रवृत्तित्वादित्यसिद्धो हेतुरिति नाऽऽशङ्कनीयमित्याह –
करणानि हीति ।
अन्यत्रमना अभूवं नादर्शमित्यादिलोकानुभवान्मनआदीनां करणत्वं सिद्धं ततः प्रदीपवदचेतनत्वं सिद्धमित्यर्थः । इच्छामात्रेणेति प्रयत्नाद्यभावो लक्ष्यते नत्विच्छास्तित्वं निर्विकारताया विवक्षितत्वात् । प्रेषितमिवेतीवशब्दाध्याहारेण किमिति व्याख्यातम् ।
यथा राज्ञ इच्छामात्रेण काचिद्भृत्यप्रवृत्तिः काचिच्च वागादिव्यापारेण तद्वदिह किं न स्यादित्याशङ्क्याऽऽह –
न त्विति ।
सक्रियस्य सर्वस्यानित्यतयाऽवधारितत्वान्निष्क्रियं वस्तु पिपृच्छिषितं ततो नार्थभेदः सम्भवतीत्यर्थः । विषयेभ्यः । विषयग्रहणार्थं ; नित्यचिकित्सायामधिष्ठातुश्चकोरस्य सन्निधिमात्रेण यथा राजभोजनादिप्रवृत्तिनिमित्तत्वं तद्वदित्यर्थः ।
प्रकरणादिति ।
करणसन्निधानादित्यर्थः ॥ १ ॥