प्रतिवचनवाक्यार्थसङ्ग्रहं विवृणोति –
विक्रियादीत्यादिना ।
मनआदीनां यः प्रवर्तकः स किंविशेष इति प्रश्नस्य निर्विशेषतैव विशेष इत्युत्तरम् । क्रियाया गुणस्य सम्बन्धस्य वा विशेषस्य व्यावर्तकधर्मस्य दर्शयितुमशक्यत्वात्क्रियादिमत्त्वे घटादिवदनात्मत्वप्रसङ्गादतो निर्विशेषचैतन्यात्मकोऽहमित्येवं ज्ञानं सम्यग्ज्ञानम् । न चाभावेन सद्वयत्वप्रसङ्गः । तस्य पृथक्सत्त्वाभावात्स्वरूपेण व्यवहाराङ्गत्वादित्युक्तमन्यत्र ; यदि शौक्ल्यादिवत्कोऽपि विशेषोऽभविष्यत्तदा तमवक्ष्यत् ।
श्रुतिस्तूपलक्षणवृत्त्यैव प्रतिवचनं ब्रुवाणा निर्विशेषत्वं मन्यत इति श्रुत्यक्षरानुसाराद्गम्यत इत्याह –
अनुगमादिति ।
निर्विशेषत्ववाचकपदाभावात्कथं निर्विशेषेऽक्षरानुगम इत्याह –
कथमिति ।
निर्विशेषस्य वाचकशक्त्या वाक्यार्थत्वाभावेऽप्युपलक्षणवृत्त्या भविष्यतीत्यभिप्रेत्य श्रोत्रशब्दस्य तावन्मुख्यार्थमाह –
श्रृणोतीति ।
शब्दावभासकत्वं स्वशक्त्यैव भविष्यति श्रोत्रस्य कथं तस्य शब्दावभासकत्वेनाऽऽत्मोपलक्षयितव्य इत्याकाङ्क्षायामाह –
शब्दोपलब्घृरूपतयेति ।
शक्तिः सतः प्रकाशमानस्यैव वाच्या नासतोऽप्रकाशमानस्य नरविषाणायमानत्वेन शक्तिमत्त्वानुपपत्तेः । सत्ता प्रकाशश्चाऽऽत्मरूपं तद्भेदे मानाभावादत उपलब्धृतादात्म्येनैव श्रोत्रस्यावभासकत्वं न स्वातन्त्र्येण जडत्वात् । जडस्य च सत्ताहीनत्वाच्छुक्तिरूप्यस्येवेत्यर्थः ।
श्रोत्रस्यावभासकत्वमुपलब्धृतादात्म्येनेति यद्युपलब्धोपलक्ष्यते तर्ह्युपलब्धुरप्यवभासकत्वमन्याधीनमित्यनवस्था प्राप्नोतीत्याशङ्क्याऽऽह –
आत्मनश्चेति ।
स्वप्रकाशत्वादुपलब्धुः सत्ताप्रतीत्योरनन्यायत्तत्वान्नानवस्थेत्यर्थः । भवत्वेवमनवस्थाभावः ।
तथाऽपि कथं श्रोत्रस्य श्रोत्रमित्यात्मोच्यत इत्याशङ्क्याऽऽह –
यच्छ्रोत्रस्येति ।
तदात्मनिमित्तत्वादिति ।
तस्याऽऽत्मनिमित्तत्वाच्छ्रोत्रस्य श्रोत्रमित्युपलक्ष्यते निर्विशेषं चैतन्यमात्रमित्यर्थः ।
यथा क्षत्रस्येति ।
क्षत्रजातिनियामकं कर्म क्षत्रमित्युच्यते यथेत्यर्थः ।
यदि श्रोत्रादिसाक्ष्यात्माऽस्ति कथं लोकायतिकादेः श्रोत्रादिष्वेवोपलब्धृत्वव्यवहार इत्याशङ्क्याऽऽह –
उदकमपीति ।
तद्वदुपलब्धृसम्बन्धाच्छ्रोत्रादिषूपलब्धृत्वव्यवहार इत्यर्थः । भवन्मते तर्हि नित्योपलब्धिस्वभाव आत्मेति श्रोत्रादेः करणत्वं न स्यात् ।
क्रियायां हि करणापेक्षेत्याकाङ्क्षायामाह –
अनित्यं यदिति ।
प्रमातुर्यत्सम्बन्धादनित्यमुपलब्धृत्वं भवति बुद्धिपरिणामैस्तच्छ्रोत्रादि करणं बुद्धिवृत्त्यपेक्षया भवतीत्यर्थः ।
श्रोत्रादिसङ्गते प्रमातर्यनित्योपलब्धृत्वसम्भवेऽपि तवासङ्गस्य साक्षिणः कथमुपलब्धृत्वव्यपदेश इत्याशङ्क्याऽऽह –
यत्रत्विति ।
उक्तमर्थं सङ्क्षिप्याऽऽह –
श्रोत्रादिष्विति ।
श्रोत्रादिषु निमित्तेषु सत्सु श्रोत्रादिसंहते प्रसातरि श्रोतृत्वादिरूपोपलब्धिरित्युपलब्धृत्वमित्यर्थः ।
मनसो मन इत्यादिष्वेवमतिदिशति –
मनआदिष्वेवमिति ।
न्यायसामान्याद्यथोक्तं व्याख्यानं द्रष्टव्यम् । नहि मनसो मनस्त्वं वाचो वाक्त्वं वा स्वातन्त्र्येण सम्भवति अध्यस्तत्वादतोऽधिष्ठानसत्ताप्रकाशाभ्यामेव सत्ताप्रकाशत्वं मनआदेः । तच्चाधिष्ठानं निर्विशेषमेवोपलक्षयितव्यम् । सविशेषत्वेऽध्यस्तत्वप्रसङ्गादिति भावः ।
विभक्तिद्वयनिर्देशतात्पर्यमाह –
वाचो हेत्यादिना ।
मनआदेः प्रवर्तकः किंस्वभाव इति पृष्टत्वात्स्वरूपनिर्देशः कर्तव्यः । स च प्रथमया । “ निर्देशे प्रथमा प्रोक्ता” इति स्मरणादित्यर्थः ।
अतिमुच्य धीरा इत्युत्तरं वाक्यं साध्याहारं योजयति –
यदेतदित्यादिना ।
एतद्बुद्ध्वाऽमृता भवन्तीति सम्बन्धः । तादात्म्येनाध्यारोपितो यो बुद्ध्यादिरनवबोधनिमित्तः संसारस्ततो मोक्षणं तादात्म्याध्यासनिवृत्तिर्दृष्टं फलम् । अमृता भवन्तीति विदेहमुक्तिरदृष्टं फलमित्यर्थः । कर्मणां सम्बन्धानुपपत्तिरिति शेषः ।
निमित्ताभावाच्छरीरान्तराद्यनारम्भेऽमृता भवन्तीति प्रयोगादागन्तुकत्वममृतत्वस्येतिशङ्कानिवृत्त्यर्थमाह –
शरीरादीति ।
अनादिभवपरम्परया शरीर्यासं परस्ताच्च भविष्यामीति शरीरादिसन्तानाविच्छेदस्य प्रतिसन्धानं धर्माद्यधिकारित्वाध्यासः कामादिदोषकल्पनं चैतस्मादध्यारोपितो यो मृत्युस्तद्वियोगापेक्षयाऽमृतत्वस्य भवनमौपचारिकमित्यर्थः ॥ २ ॥