केनोपनिषद्वाक्यभाष्यम्
आनन्दगिरिटीका (केन वाक्यभाष्य)
 
न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनः ।
न विद्मो न विजानीमो यथैतदनुशिष्यात् ॥ ३ ॥
न तत्र चक्षुर्गच्छतीत्युक्तेऽपि पर्यनुयोगे हेतुरप्रतिपत्तेः । ‘श्रोत्रस्य श्रोत्रम्’ इत्येवमादिनोक्तेऽप्यात्मतत्त्वे अप्रतिपन्नत्वात्सूक्ष्मत्वहेतोर्वस्तुनः पुनः पुनः पर्यनुयुयुक्षाकारणमाह — न तत्र चक्षुर्गच्छतीति । तत्र श्रोत्राद्यात्मभूते चक्षुरादीनि, वाक्चक्षुषोः सर्वेन्द्रियोपलक्षणार्थत्वात् , न विज्ञानमुत्पादयन्ति । सुखादिवत्तर्हि गृह्येतान्तःकरणेन अत आह — नो मनः, न सुखादिवन्मनसो विषयस्तत् , इन्द्रियाविषयत्वात् । न विद्मो न विजानीमः अन्तःकरणेन, यथा एतत् ब्रह्म मनआदिकरणजातम् अनुशिष्यात् अनुशासनं कुर्यात् प्रवृत्तिनिमित्तं यथा भवेत् , तथा अविषयत्वान्न विद्मो न विजानीमः । अथवा श्रोत्रादीनां श्रोत्रादिलक्षणं ब्रह्म विशेषेण दर्शयेत्युक्त आचार्य आह — न शक्यते दर्शयितुम् । कस्मात् ? न तत्र चक्षुर्गच्छतीत्यादि पूर्ववत्सर्वम् । अत्र तु विशेषो यथैतदनुशिष्यादिति । यथैतत् अनुशिष्यात् प्रतिपादयेत् अन्योऽपि शिष्यानितोऽन्येन विधिनेत्यभिप्रायः ॥

न तत्र चक्षुर्गच्छतीतिवाक्यार्थं सङ्गृह्णाति –

आचार्येणोक्तेऽपि तत्त्वे शिष्यस्याप्रतिपत्तेर्हेतोः पर्यनुयोगे हेतुर्न तत्र चक्षुर्गच्छतीति ।

एतद्विवृणोति –

श्रोत्रस्य श्रोत्रमित्यादिना ।

आत्मा नेन्द्रियविषयोऽभौतिकत्वान्नरविषाणवत् ।

मनश्चेन्द्रियं प्रसिद्धं ततस्तस्याप्यविषय इत्याह –

इन्द्रियाविषयत्वादिति ।

न विद्माो न विजानीम इत्याद्यभ्यासः सर्वथाऽन्तःकरणाविषयत्वख्यापनार्थः ।

आक्षेपपरतया व्याख्याय शङ्कोत्तरत्वेन व्याचष्टे –

अथवेत्यादिना ।

इत उपलक्षणप्रकारादन्येन प्रकारेण न शक्यते दर्शयितुं क्रियागुणादिविशेषशून्यत्वादित्यर्थः । आगममित्युपदेशपारम्पर्यमाहेति सम्बन्धः ॥ ३ ॥