केनोपनिषद्वाक्यभाष्यम्
आनन्दगिरिटीका (केन वाक्यभाष्य)
 
प्रतिबोधविदितं मतममृतत्वं हि विन्दते ।
आत्मना विन्दते वीर्यं विद्यया विन्दतेऽमृतम् ॥ ४ ॥
प्रतिबोधविदितमिति वीप्साप्रत्ययानामात्मावबोधद्वारत्वात् बोधं प्रति बोधं प्रतीति वीप्सा सर्वप्रत्ययव्याप्त्यर्था । बौद्धा हि सर्वे प्रत्ययास्तप्तलोहवन्नित्यविज्ञानस्वरूपात्मव्याप्तत्वाद्विज्ञानस्वरूपावभासाः तदन्यावभासश्चात्मा तद्विलक्षणोऽग्निवदुपलभ्यत इति ते द्वारीभवन्त्यात्मोपलब्धौ । तस्मात्प्रतिबोधावभासप्रत्यगात्मतया यद्विदितं तद्ब्रह्म, तदेव मतं तदेव सम्यग्ज्ञानं यत्प्रत्यगात्मविज्ञानम् , न विषयविज्ञानम् । आत्मत्वेन ‘प्रत्यगात्मानमैक्षत्’ (क. उ. २ । १ । १) इति च काठके । अमृतत्वं हि विन्दते इति हेतुवचनं विपर्यये मृत्युप्राप्तेः । विषयात्मविज्ञाने हि मृत्युः प्रारभते इत्यात्मविज्ञानममृतत्वनिमित्तमिति युक्तं हेतुवचनममृतत्वं हि विन्दते इति । आत्मज्ञानेन किममृतत्वमुत्पाद्यते । न । कथं तर्हि ? आत्मना विन्दते स्वेनैव नित्यात्मस्वभावेनामृतत्वं विन्दते, नालम्बनपूर्वकं विन्दत इति आत्मज्ञानापेक्षम् । यदि हि विद्योत्पाद्यममृतत्वं स्यात् , अनित्यं भवेत्कर्मकार्यवत् । अतो न विद्योत्पाद्यम् ।

केन द्वारेण तर्ह्यविषयतयाऽऽत्माऽवगम्यतामित्याकाङ्क्षायामाह –

प्रतिबोधेति ।

सङ्ग्रहवाक्यं विवृणोति –

बोधं प्रतीत्यादिना ।

यथाऽस्मिञ्शरीरे बुद्धिपरिणामा जडा अपि चिद्व्याप्ततया संवेदनवदवभासन्त इति सम्भाव्यते । जडानां स्वाभाविकप्रकाशानुपपत्तेः तथा सर्वशरीरेषु बौद्धाः प्रत्यया यद्व्याप्ततया संवेदनवद्भासन्ते सोऽस्तीति सम्भाव्यते । एतदुक्तं भवति । श्रोतृशरीरावच्छिन्नबौद्धप्रत्ययसाक्ष्येकस्त्वमर्थः । तदितरसर्वशरीरावच्छिन्नबौद्धप्रत्ययसाक्ष्येकस्तदर्थः । चिन्मात्रे व्यावर्तकधर्मानुपलम्भाद्विभक्तत्वे चानात्मत्वादिदोषप्रसङ्गात्सम्भावितमेकत्वं तदेव ब्रह्म त्वमितिवाक्यजबुद्धिवृत्तावविषयतया प्रकाशते ब्रह्मास्मीति । यस्मात्तदन्याञ्जडानवभासयतीति तदन्यावभास आत्मा सर्वजडविलक्षणोऽवगन्तुं शक्यते तस्मादित्युपसंहारः । प्रतिबोधमवभासाश्चित्प्रतिबिम्बास्तेषां प्रत्यगात्मतयाऽव्यभिचरितस्वरूपेण बिम्बस्थानीयेनैकेन रूपेण यद्ब्रह्मवेदनं तत्सम्यग्दर्शनमित्यर्थः ।

विषयविज्ञानं सम्यग्ज्ञानं न भवतीत्यत्र हेतुमाह –

आत्मत्वेनेति ।

ब्रह्मण आत्मत्वेन विषयत्वासम्भवादित्यर्थः । अद्वयानन्दरूपस्य सर्वज्ञत्वादिधर्मकस्य ब्रह्मणः शास्त्रैकसमधिगम्यत्वात्तटस्थस्यापरोक्षत्वं न सम्भवति किन्तु प्रत्यग्रूपेणैवेत्यभिप्रेत्य काठकेऽपि विशेषणमित्यर्थः ।

प्रत्यक्तयाऽपरोक्षब्रह्मज्ञानं तदेव सम्यग्ज्ञानमित्यत्र को हेतुरित्याशङ्क्यापरोक्षबन्धाध्यासस्य परोक्षज्ञानान्निवृत्त्यसम्भवादपरोक्षज्ञानस्य च तन्निवर्तनेनामृतत्वसाधनत्वादित्युत्तरवाक्यार्थं सङ्गृह्णाति –

अमृतत्वं हीति ।

सूत्रं विभजते –

विषयात्मेति ।

विषयेषु बुद्ध्यादिष्वात्मविज्ञाने विषयतया वा व्यतिरिक्तस्योपास्यतया ज्ञाने मृत्युः प्रारभते भयमिति प्रसिद्धं बुद्ध्यादिसङ्घातमात्मानं मन्यमानस्योपासकस्य च कर्तृत्वभ्रमानिवृत्तेः । “अथ येऽन्यथाऽतो विदुरन्यराजानस्ते क्षय्यलोका भवन्ति”(छा. उ. ७ । २५ । २) इत्यादिश्रुतिभ्यश्च “तरति शोकमात्मवित्”(छा. उ. ७ । १ । ३) इत्यादिश्रुतिषु चाऽऽत्मज्ञानममृतत्वनिमित्तं प्रसिद्धमित्यर्थः ।

नाऽऽलम्बनपूर्वकमिति ।

किञ्चिदुपास्यमालम्बनीकृत्य तदुपासनसाध्यतया न विन्दत इत्यर्थः ।

कथं तर्हि विन्दत इति प्रयोग इत्याकाङ्क्षायामाह –

आत्मविज्ञानापेक्षमिति ।

आत्मविज्ञानेन मर्त्यत्वभ्रमनिवृत्तिमपेक्ष्यामृतत्वमुपचर्यत इत्यर्थः ।

मुख्यार्थे बाधमाह –

यदि हीत्यादिना ।

अनात्मा विज्ञायते येन तदनात्मविज्ञानमनाद्यनिर्वाच्यमात्माज्ञानमित्यर्थः ।