केनोपनिषद्वाक्यभाष्यम्
आनन्दगिरिटीका (केन वाक्यभाष्य)
 
इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः ।
भूतेषु भूतेषु विचित्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥ ५ ॥
इह चेदवेदीदिति अवश्यकर्तव्यतोक्तिः विपर्यये विनाशश्रुतेः । इह मनुष्यजन्मनि सति अवश्यमात्मा वेदितव्य इत्येतद्विधीयते । कथम् ? इह चेत् अवेदीत् विदितवान् , अथ सत्यं परमार्थतत्त्वम् अस्ति अवाप्तम् ; तस्य जन्म सफलमित्यभिप्रायः । न चेदिहावेदीत् न विदितवान् , वृथैव जन्म । अपि च महती विनष्टिः महान्विनाशो जन्ममरणप्रबन्धाविच्छेदप्राप्तिलक्षणः स्याद्यतः, तस्मादवश्यं तद्विच्छेदाय ज्ञेय आत्मा । ज्ञानेन तु किं स्यादिति, उच्यते — भूतेषु भूतेषु चराचरेषु सर्वेष्वित्यर्थः । विचित्य विचार्य पृथङ्निष्कृष्यैकमात्मतत्त्वं संसारधर्मैरस्पृष्टमात्मभावेनोपलभ्येत्यर्थः, अनेकार्थत्वाद्धातूनाम् । न पुनश्चित्वेति सम्भवति, विरोधात् । धीराः धीमन्तः विवेकिनः विनिवृत्तबाह्यविषयाभिलाषाः, प्रेत्य मृत्वा अस्मात् लोकात् शरीराद्यनात्मलक्षणात् व्यावृत्तममत्वाहङ्काराः सन्त इत्यर्थः, अमृताः अमरणधर्माणो नित्यविज्ञानामृतत्वस्वभावा एव भवन्ति ॥

इह चेदवेदीदित्यादिवाक्यार्थं सङ्गृहीतं विवृणोति –

इह मनुष्यजन्मनीत्यादिना ।

विरोधादिति ।

एकस्मिन्निरंशे चिन्मात्रे चयनस्योर्ध्वाधोदेशनिवेशनस्येष्टकानामिवासम्भवादित्यर्थः ॥ १४ - ५ ॥

इति द्वितीयः खण्डः ॥