केनोपनिषद्वाक्यभाष्यम्
आनन्दगिरिटीका (केन वाक्यभाष्य)
 
तद्ध तद्वनं नाम तद्वनमित्युपासितव्यं स य एतदेवं वेदाभि हैनं सर्वाणि भूतानि संवाञ्छन्ति ॥ ६ ॥
तस्य चाध्यात्ममुपासने गुणो विधीयते — तद्ध तद्वनं तदेतद्ब्रह्म तच्च तद्वनं च तत् परोक्षं वनं सम्भजनीयम् । वनतेस्तत्कर्मणः । तस्मात्तद्वनं नाम । ब्रह्मणो गौणं हीदं नाम । तस्मादनेन गुणेन तद्वनमित्युपासितव्यम् । स यः कश्चिदेतद्यथोक्तमेवं यथोक्तेन गुणेन वनमित्यनेन नाम्नाभिधेयं ब्रह्म वेद उपास्ते तस्यैतत्फलमुच्यते — सर्वाणि भूतानि एनम् उपासकम् अभिसंवाञ्छन्ति इहाभिसम्भजन्ते सेवंते स्मेत्यर्थः । यथागुणोपासनं हि फलम् ।

वनतेस्तत्कर्मण इति ।

‘वन’ सम्भजन इत्यस्य धातोः सम्भजनार्थस्य रूपं वनमिति । तत्प्रसिद्धं वनं न गृह्यत इत्यर्थः ।

गौणमिति ।

अवयवशक्तिलभ्यं न रूढ्या समुदायशक्त्येत्यर्थः ॥ ३२ - ६ ॥