केनोपनिषद्वाक्यभाष्यम्
चतुर्थः खण्डः
आनन्दगिरिटीका (केन वाक्यभाष्य)
 
उपनिषदं भो ब्रूहीत्युक्ता त उपनिषद्ब्राह्मीं वाव त उपनिषदमब्रूमेति ॥ ७ ॥
उपनिषदं भो ब्रूहीत्युक्तायामुपनिषदि शिष्येणोक्त आचार्य आह — उक्ता कथिता ते तुभ्यम् उपनिषदात्मोपासनम् । अधुना ब्राह्मीं वाव ते तुभ्यं ब्रह्मणो ब्राह्मणजातेः उपनिषदम् अब्रूम वक्ष्याम इत्यर्थः । वक्ष्यति हि । ब्राह्मी नोक्ता । उक्ता त्वात्मोपनिषत् । तस्मान्न भूताभिप्रायोऽब्रूमेत्ययं शब्दः ॥

ब्राह्मणजातेरुपनिषदमिति ।

ब्राह्मणजात्यनुष्ठेयां विद्यामात्मज्ञानसाधनभूतामित्यर्थः ॥ ३३ - ७ ॥ ब्रह्मेति वेदस्तन्मूलत्वात्तदाश्रया ॥ ३४ - ८ ॥ तपआदीनि वेदाङ्गान्यन्याङ्गानि यस्याः ॥ ३५ - ९ ॥ सत्यकामः स्वयंसिद्धः सर्वेशो यः स्वशक्तितः । स एवान्तःप्रविष्टोऽहमुपास्यः सर्वदेहिनाम् ॥ १ ॥

इति चतुर्थः खण्डः ॥
इति श्रीपरमहंसपरिव्राजकाचार्यश्रीशुद्धानन्दभगवत्पूज्यपादशिष्यभगवदानन्दज्ञानकृतौ श्रीमच्छाङ्करतलवकारोपनिषदपरपर्यायकेनोपनिषद्वाक्यभाष्यविवरणं समाप्तम् ।