विश्वादिष्ववान्तरविशेषनिरूपणद्वारेण तुरीयमेव निर्धारयति –
कार्येति ।
श्लोकस्य तात्पर्यमाह –
विश्वादीनामिति ।
विश्वतैजसयोरुभयबद्धत्वं सामान्यं, प्राज्ञस्य कारणमात्रबद्धत्वं विशेषः ।
अथेदं निरूपणं कुत्रोपयुज्यते ? तत्राऽऽह –
तुर्येति ।
प्राज्ञस्य कारणमात्रबद्धत्वं साधयति –
तत्त्वाप्रतिबोधेति ।
त्रयाणामवान्तरविशेषे स्थिते प्रकृतेतुरीये किमायातमित्याशङ्क्याऽऽह –
तत इति ।
तयोस्तस्मिन्नविद्यमानत्वं चिदेकताने तयोर्निरूपयितुमशक्यत्वादित्याह –
न सम्भवत इति ॥११॥