प्रथमपादस्य प्रथममात्रायाश्चाभेदारोपार्थमुक्तं सामान्यद्वयं विशदयति –
विश्वस्येति ।
उक्तन्यायेनाऽऽदिरस्येत्यादाविति शेषः ।
पुनरुक्तिपरिहारद्वारा विवक्षितमर्थमाह –
अत्वेति ।
अनुवृत्तिद्योतकं दर्शयति –
चशब्दादिति ॥१९॥