माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
वैतथ्यं सर्वभावानां स्वप्न आहुर्मनीषिणः ।
अन्तःस्थानात्तु भावानां संवृतत्वेन हेतुना ॥ १ ॥
‘ज्ञाते द्वैतं न विद्यते’ इत्युक्तम् ‘एकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) इत्यादिश्रुतिभ्यः । आगममात्रं तत् । तत्र उपपत्त्यापि द्वैतस्य वैतथ्यं शक्यतेऽवधारयितुमिति द्वितीयं प्रकरणमारभ्यते — वैतथ्यमित्यादिना । वितथस्य भावो वैतथ्यम् ; असत्यत्वमित्यर्थः । कस्य ? सर्वेषां बाह्याध्यात्मिकानां भावानां पदार्थानां स्वप्ने उपलभ्यमानानाम् , आहुः कथयन्ति मनीषिणः प्रमाणकुशलाः । वैतथ्ये हेतुमाह — अन्तःस्थानात् , अन्तः शरीरस्य मध्ये स्थानं येषाम् ; तत्र हि भावा उपलभ्यन्ते पर्वतहस्त्यादयः, न बहिः शरीरात् ; तस्मात् ते वितथा भवितुमर्हन्ति । ननु अपवरकाद्यन्तरुपलभ्यमानैर्घटादिभिरनैकान्तिको हेतुरित्याशङ्क्याह — संवृतत्वेन हेतुनेति । अन्तः संवृतस्थानादित्यर्थः । न ह्यन्तः संवृते देहान्तर्नाडीषु पर्वतहस्त्यादीनां सम्भवोऽस्ति ; न हि देहे पर्वतोऽस्ति ॥

अागमप्राधान्येनाद्वैतं प्रतिपादयता तत्प्रत्यनीकस्य द्वैतस्य मिथ्यात्वमर्थादुक्तम् । इदानीं तन्मिथात्वमुपपत्तिप्राधान्येनापि प्रतिपत्तुं सुशकमिति दर्शयितुं प्रकरणान्तरमवतारयन्नादौ दृष्टान्तसिद्ध्यर्थं तस्मिन् वृद्धसंमतिमाह –

वैतथ्यमिति ।

न केवलमागमोक्तिवशादेव स्वप्नमिथ्यात्वं, किं तु युक्तितोऽपीत्याह –

अन्तःस्थानादिति ।

पूर्वोत्तरप्रकरणयोः सम्बन्धसिद्ध्यर्थं पूर्वप्रकरणे वृत्तं संक्षिप्यानुवदति –

ज्ञात इति ।

आदिशब्देन ‘यत्र हि द्वैतमिव भवति’(बृ. उ. २ । ४ । १४) इत्यादिश्रुतिर्गृह्यते ।

तर्हि द्वैतमिथ्यात्वस्य प्रागेव सिद्धत्वादुत्तरं प्रकरणमनर्थकमित्याशङ्क्याऽऽह –

आगमेति ।

यद्द्वैतमिथ्यात्वं पूर्वमुक्तं – तदागममात्रम् आगमप्राधान्येनाधिगतम् । न ह्युक्तितः सिद्धम् । तस्मिन्नागमतोऽवगते युक्तिप्राधान्येनापि तन्मिथ्यात्वमवगन्तव्यमिति प्रकरणान्तरं प्रारब्धमित्यर्थः । प्रमाणानुग्राहकत्वात्तर्कस्यानुग्राह्यप्रमाणस्य प्रधानत्वात् तदधीनविचारानन्तरं तर्काधीनविचारस्य सावकाशाद् युक्तं पौर्वापर्यं पूर्वोत्तरप्रकरणयोरित्युक्तम् ।

संप्रति श्लोकाक्षराणि योजयति –

वितथस्येत्यादिना ।

बाह्यघटादयः; सुखादयस्त्वाध्यात्मिका भावाः ।

शरीरान्तरवस्थानं स्वाप्नानां भावानामित्यत्रानुभवं प्रमाणयति –

तत्र हीति ।

तेषामन्तरुपलभ्यमानत्वेऽपि न वैतथ्यं व्यभिचारादित्याशङ्कामनूद्य परिहरति –

नन्वित्यादिना ।

हेत्वान्तरशङ्कां वारयति –

अन्तरिति ।

यद्यपि देहान्तः सङ्कुचिते देशे स्वाप्ना भावा भवन्ति तथाऽपि कथं तेषां मृषात्वमित्यत आह –

न हीति ।

अन्तरित्युक्तं स्फुटयति –

संवृत इति ।

तमेव सङ्कुचितं देशं विशेषणान्तरेण स्फोरयति –

देहान्तर्नाडीष्विति ।

उक्तमर्थं कैमुतिकन्यायेन स्फुटयति –

न हीति ।

यदा देहेऽपि पर्वतादयो न संभाव्यन्ते तदा तदन्तर्वर्तिनीषु नाडिष्वतिसूक्ष्मासु तेषां सम्भावना नास्तीति किमु वक्तव्यमित्यर्थः । स्वाप्ना भवाः सत्या न भवन्ति, उचितदेशशून्यत्वात्, रजतभुजङ्गादिवदिति भावः ॥१॥