अागमप्राधान्येनाद्वैतं प्रतिपादयता तत्प्रत्यनीकस्य द्वैतस्य मिथ्यात्वमर्थादुक्तम् । इदानीं तन्मिथात्वमुपपत्तिप्राधान्येनापि प्रतिपत्तुं सुशकमिति दर्शयितुं प्रकरणान्तरमवतारयन्नादौ दृष्टान्तसिद्ध्यर्थं तस्मिन् वृद्धसंमतिमाह –
वैतथ्यमिति ।
न केवलमागमोक्तिवशादेव स्वप्नमिथ्यात्वं, किं तु युक्तितोऽपीत्याह –
अन्तःस्थानादिति ।
पूर्वोत्तरप्रकरणयोः सम्बन्धसिद्ध्यर्थं पूर्वप्रकरणे वृत्तं संक्षिप्यानुवदति –
ज्ञात इति ।
आदिशब्देन ‘यत्र हि द्वैतमिव भवति’(बृ. उ. २ । ४ । १४) इत्यादिश्रुतिर्गृह्यते ।
तर्हि द्वैतमिथ्यात्वस्य प्रागेव सिद्धत्वादुत्तरं प्रकरणमनर्थकमित्याशङ्क्याऽऽह –
आगमेति ।
यद्द्वैतमिथ्यात्वं पूर्वमुक्तं – तदागममात्रम् आगमप्राधान्येनाधिगतम् । न ह्युक्तितः सिद्धम् । तस्मिन्नागमतोऽवगते युक्तिप्राधान्येनापि तन्मिथ्यात्वमवगन्तव्यमिति प्रकरणान्तरं प्रारब्धमित्यर्थः । प्रमाणानुग्राहकत्वात्तर्कस्यानुग्राह्यप्रमाणस्य प्रधानत्वात् तदधीनविचारानन्तरं तर्काधीनविचारस्य सावकाशाद् युक्तं पौर्वापर्यं पूर्वोत्तरप्रकरणयोरित्युक्तम् ।
संप्रति श्लोकाक्षराणि योजयति –
वितथस्येत्यादिना ।
बाह्यघटादयः; सुखादयस्त्वाध्यात्मिका भावाः ।
शरीरान्तरवस्थानं स्वाप्नानां भावानामित्यत्रानुभवं प्रमाणयति –
तत्र हीति ।
तेषामन्तरुपलभ्यमानत्वेऽपि न वैतथ्यं व्यभिचारादित्याशङ्कामनूद्य परिहरति –
नन्वित्यादिना ।
हेत्वान्तरशङ्कां वारयति –
अन्तरिति ।
यद्यपि देहान्तः सङ्कुचिते देशे स्वाप्ना भावा भवन्ति तथाऽपि कथं तेषां मृषात्वमित्यत आह –
न हीति ।
अन्तरित्युक्तं स्फुटयति –
संवृत इति ।
तमेव सङ्कुचितं देशं विशेषणान्तरेण स्फोरयति –
देहान्तर्नाडीष्विति ।
उक्तमर्थं कैमुतिकन्यायेन स्फुटयति –
न हीति ।
यदा देहेऽपि पर्वतादयो न संभाव्यन्ते तदा तदन्तर्वर्तिनीषु नाडिष्वतिसूक्ष्मासु तेषां सम्भावना नास्तीति किमु वक्तव्यमित्यर्थः । स्वाप्ना भवाः सत्या न भवन्ति, उचितदेशशून्यत्वात्, रजतभुजङ्गादिवदिति भावः ॥१॥