माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
अदीर्घत्वाच्च कालस्य गत्वा देहान्न पश्यति ।
प्रतिबुद्धश्च वै सर्वस्तस्मिन्देशे न विद्यते ॥ २ ॥
स्वप्नदृश्यानां भावानामन्तः संवृतस्थानमित्येतदसिद्धम् , यस्मात्प्राच्येषु सुप्त उदक्षु स्वप्नान्पश्यन्निव दृश्यत इत्येतदाशङ्क्याह — न देहाद्बहिर्देशान्तरं गत्वा स्वप्नान्पश्यति ; यस्मात्सुप्तमात्र एव देहदेशाद्योजनशतान्तरिते मासमात्रप्राप्ये देशे स्वप्नान्पश्यन्निव दृश्यते ; न च तद्देशप्राप्तेरागमनस्य च दीर्घः कालोऽस्ति ; अतः अदीर्घत्वाच्च कालस्य न स्वप्नदृग्देशान्तरं गच्छति । किञ्च, प्रतिबुद्धश्च वै सर्वः स्वप्नदृक् स्वप्नदर्शनदेशे न विद्यते । यदि च स्वप्ने देशान्तरं गच्छेत् , यस्मिन्देशे स्वप्नान्पश्येत् , तत्रैव प्रतिबुध्येत । न चैतदस्ति । रात्रौ सुप्तः अहनीव भावान्पश्यति ; बहुभिः सङ्गतो भवति ; यैश्च सङ्गतः स तैर्गृह्येत, न च गृह्यते ; गृहीतश्चेत्त्वामद्य तत्रोपलब्धवन्तो वयमिति ब्रूयुः ; न चैतदस्ति । तस्मान्न देशान्तरं गच्छति स्वप्ने ॥

देहाद् बहिरेव देशान्तरं गत्वा स्वाप्नानां भावानामुपलम्भात् तेषां देहान्तः संवृते नाडीप्रदेशे दर्शनमसम्प्रतिपन्नमित्याशङ्क्य परिहरति –

अदीर्घत्वाच्चेति ।

बहिः स्वप्नोपलब्धिपक्षे दोषान्तरमाह –

प्रतिबुद्धश्चेति ।

व्यावर्त्यामाशङ्कामनुवदति –

स्वप्नेति ।

तेषां देहान्तः सङ्कुचिते नाडीदेशे स्थितिदर्शनान्मिथ्यात्वमित्येतदप्यसम्प्रतिपन्नमित्यत्र हेतुमाह –

यस्मादिति ।

पश्यन्निवेति स्वप्नदर्शनस्य निरूपणे सत्याभासत्वमिवशब्देन द्योत्यते । एतच्छब्देन चोद्यं परामृश्यते । स्वप्नद्रष्टा गत्वा स्वप्नान्न पश्यतीत्यत्र हेतुमाह –

यस्मादिति ।

इवशब्दस्तु पूर्ववत् ।

तथाऽपि कथं बहिः स्वप्नोपलम्भो न भवतीति निर्धारितमित्याशङ्क्याऽऽह –

न चेति ।

स्वप्नः सत्यो न भवति उचितकालविकलत्वात् सम्प्रतिपन्नविदित्यभिप्रेत्य फलितमाह –

अत इति ।

इतश्च न देहाद् बहिर्देशान्तरे स्वप्नदर्शनमित्याह –

किं चेति ।

सर्वोऽपि स्वप्नद्रष्टा देशान्तरे स्वप्नाप्नश्यन्नकस्मादेव प्रतिबुद्धो न तत्रास्ति किं तु शयनदेशे वर्तते ।

तथाऽपि गत्वा स्वप्नदर्शने काऽनुपपत्तिरित्याशङ्क्याऽऽह –

यदि चेति ।

अन्तरेव स्वप्नदर्शनमिति स्थिते स्वप्नमिथ्यात्वमुचितकालशून्यत्वादियुक्तं प्रपञ्चयति –

रात्राविति ।

यद्यपि रात्रौ निद्रामुपगतस्तथाऽपि भावानहनि पश्यन्निव तिष्ठति सुप्तः संहृतचक्षुरादिकरणोऽपि पश्यति । शयानोऽपि पर्यटनं प्रतिपद्यते । यद्यपि सहायविहीनः सुप्तस्तथाऽपि बहुभिः सहायैः स्वप्नानुपलभते । तस्मादुचितस्य कालस्य कारणस्य सहकारिणश्चाभावेऽपि स्वप्नदर्शनात् तस्मिन्मिथ्यात्वं सिद्धमित्यर्थः ।

स्वप्नमिथ्यात्वे हेत्वन्तरमाह –

यैश्चेति ।

सहदर्शिभिरर्गृह्यमाणत्वं स्वप्नद्रष्टुरसम्प्रतिपन्नमित्याशङ्क्याऽऽह –

गृहीतश्चेदिति ।

पुरुषान्तरसंवादादर्शनात्तद्देशान्तरप्राप्तिद्वारा स्वप्नदर्शनमिति वक्तुमशक्यत्वादन्तरेव स्वप्नदर्शनमित्युचितदेशकालाद्यभावात्तन्मिथ्यात्वं सिद्धमित्युपसंहरति –

तस्मान्नेति ॥२॥