स्वप्नदृश्यानां भावानां मिथ्यात्वे हेत्वन्तरमाह –
अभावश्चेति ।
‘न तत्र रथा न रथयोगा न पन्थानो भवन्ति’(बृ. उ. ४ । ३ । १०) इत्यादिश्रुत्या स्वप्ने स्वयंज्योतिष्ट्वमात्मनो दर्शयन्त्या तत्र दृश्यानां रथादीनामभावो योग्यदेशाद्यभावद्योतकन्यायपुरःसरं श्रूयते । अतस्तेन न्यायेन प्राप्तमेव स्वप्नदृश्यभावानां मिथ्यात्वमन्यपरया श्रुत्या प्रकाशितमिति ब्रह्मविदो वदन्ति । तथा च स्वप्ने भावानां मिथ्यात्वं श्रुतियुक्तिभ्यां सिद्धमित्यर्थः ।
हेत्वन्तरपरत्वं श्लोकस्य दर्शयति –
इतश्चेति ।
इतः शब्दार्थमेव स्फुटयति –
यत इति ।
ज्ञेयाभावे ज्ञानाभावादर्थाज्ज्ञानस्यापि श्रुतमसत्त्वमिति वक्तुं चशब्दः । श्रूयते ‘ न तत्रे’ त्याद्यायां श्रुताविति सम्बन्धः ।
न्यायपूर्वकमिति व्यचष्टे –
युक्तित इति ।
योग्यदेशाद्यभावो युक्तिः ।
तर्हि न्यायसिद्धेऽर्थे किमन्यपरया श्रुत्या क्रियते, तत्राऽऽह –
तेनेति ।
अन्तःशरीरमध्यस्थानं नाडीलक्षणम् । तत्रातिसूक्ष्मे संवृतत्वेन सङ्कुचितत्वेनावस्थानं पर्वतादीनामुपलभ्यते, ततश्चोचितदेशाभावो योग्यकालाभावश्चेत्यादिना प्रागुक्तेन हेतुना प्राप्तं स्वप्नदृश्यानां भावानां वैतथ्यम्, तदेव तदनुवादिन्या श्रुत्याऽपि प्रकाशितमित्याहुर्ब्रह्मविदः । जाग्रदवस्थायामादित्यादिप्रकाशानां वागादिज्योतिषां च विद्यमानत्वादासनादिव्यवहारस्य तन्निमित्तत्वसम्भवादात्मचैतन्यनिबन्धनो व्यवहारो न निर्धारयितुं शक्यते । स्वप्ने पुनः सूर्याद्यभावेऽपि व्यवहारदर्शनात् तस्य च निमित्तापेक्षत्वादात्मचैतन्यस्य तन्निमित्तत्वनिर्णयात् तत्राऽऽत्मनः स्वयंज्योतिष्ट्वं प्रतिपादयितुं ‘न तत्र’ (मु. उ. २ । २ । ११) इत्याद्या श्रुतिः । तया तत्परया न्यायसिद्धं स्वप्नमिथ्यात्वमनुवदन्त्या तदप्रतिपादितमपि प्रकाशितमिष्यते । तथा च श्रुतियुक्तिभ्यां प्रतिपन्नं स्वप्नमिथ्यात्वमिति दृष्टान्तसिद्धिरित्यर्थः ॥३॥