माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा ।
वितथैः सदृशाः सन्तोऽवितथा इव लक्षिताः ॥ ६ ॥
इतश्च वैतथ्यं जाग्रद्दृश्यानां भेदानाम् आद्यन्तयोरभावात् , यदादावन्ते च नास्ति वस्तु मृगतृष्णिकादि, तन्मध्येऽपि नास्तीति निश्चितं लोके ; तथेमे जाग्रद्दृश्या भेदाः आद्यन्तयोरभावात् वितथैरेव मृगतृष्णिकादिभिः सदृशत्वाद्वितथा एव ; तथापि अवितथा इव लक्षिता मूढैरनात्मविद्भिः ॥

जाग्रद्दृश्यानां भावानां मिथ्यात्वमित्यत्रानुमानान्तरमाह –

आदाविति ।

यदि जाग्रद्दृश्या भावा मिथ्यात्वेन प्रसिद्धैः स्वप्नादिभिः समत्वानिथ्या, कथं तर्हि तेषां घटः सन् पटः सन्नित्यमृषात्वेन प्रतीतिरित्याशङ्क्याऽऽह –

वितथैरिति ।

प्रकृते जाग्रन्मिथ्यात्वे हेत्वन्तरपरत्वं श्लोकस्योपन्यस्यति –

इतश्चेति ।

विमतं मिथ्याऽऽदिमत्त्वादन्तवत्त्वात् स्वप्नादिवदित्यर्थः ।

उक्तानुमानद्रढिम्ने व्याप्तिं कथयति –

यदादाविति ।

यदादिमदन्तवच्च तन्मिथ्या यथा मृगतृष्णिकादीत्यार्थः ।

व्याप्तिमतः साधनस्य पक्षधर्मतोपन्यासेन प्रतिज्ञोपसंहारवचनं निगमनं दर्शयति –

तथेति ।

अनुमानस्य घटादिषु सत्त्वग्राहकप्रत्यक्षविरोधमाशङ्क्य सद् गन्धर्वनगरमितिवत् तस्याऽऽपातिकसत्त्वविषयत्वान्मैवमित्याह –

तथाऽपीति ॥६॥