स्वप्नस्य मिथ्यात्वमाद्यन्तवत्त्वान्न भवति, किं तु फलपर्यन्तत्वाभावात् । जागरितस्य फलपर्यन्तत्वान्न मिथ्यात्वमित्याशङ्क्याह –
सप्रयोजनतेति ।
फलपर्यन्तताराहित्योपाधेः साधनव्यापकत्वे फलितमाह –
तस्मादिति ।
जाग्रद्दृश्याभावा बहूक्त्या गृह्यन्ते ।
श्लोकस्य व्यावर्त्यामुपाध्याशङ्कामुत्थापयति –
स्वप्नेति ।
जाग्रद्दृश्यानामिव स्वप्नदृश्यानामपि तुल्यं सप्रयोजनत्वमित्युपाधेरसम्भवमाशङ्क्याऽऽह –
न त्विति ।
अनुमानस्य सोपाधिकत्वेनासाधकत्वे फलितमाह –
तस्मादिति ।
हेतोः सोपाधिकत्वं दूषयति –
तन्नेति ।
साधनव्याप्त्यादिदोषादृते नोपाधिनिरसनं सुशकमित्याह –
कस्मादिति ।
फलपर्यन्तताविरहित्वोपाधेः साधनव्याप्तिमाह –
यस्मादित्यादिना ।
तामेव विप्रतिपत्तिं प्रकटयति –
जागरिते हीति ।
उक्तमर्थं दृष्टान्तेन स्पष्टयति –
यथेत्यादिना ।
उपाधेः साधनव्याप्तिं निगमयति –
तस्मादिति ।
हेतोः सोपाधिकत्वाभावे फलितमाह –
अत इति ।
हेतुद्वयमुपसंहरति –
तस्मादिति ॥७॥