माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
सप्रयोजनता तेषां स्वप्ने विप्रतिपद्यते ।
तस्मादाद्यन्तवत्त्वेन मिथ्यैव खलु ते स्मृताः ॥ ७ ॥
स्वप्नदृश्यवज्जागरितदृश्यानामप्यसत्त्वमिति यदुक्तम् तदयुक्तम् ; यस्माज्जाग्रद्दृश्या अन्नपानवाहनादयः क्षुत्पिपासादिनिवृत्तिं कुर्वन्तो गमनागमनादि कार्यं च सप्रयोजना दृष्टाः । न तु स्वप्नदृश्यानां तदस्ति । तस्मात्स्वप्नदृश्यवज्जाग्रद्दृश्यानामसत्त्वं मनोरथमात्रमिति । तन्न । कस्मात् ? यस्माद्या सप्रयोजनता दृष्टा अन्नपानादीनाम् , सा स्वप्ने विप्रतिपद्यते । जागरिते हि भुक्त्वा पीत्वा च तृप्तो विनिवर्तिततृट् सुप्तमात्र एव क्षुत्पिपासाद्यार्तमहोरात्रोपोषितमभुक्तवन्तमात्मानं मन्यते, यथा स्वप्ने भुक्त्वा पीत्वा च अतृप्तोत्थितः, तथा । तस्माज्जाग्रद्दृश्यानां स्वप्ने विप्रतिपत्तिर्दृष्टा । अतो मन्यामहे तेषामप्यसत्त्वं स्वप्नदृश्यवदनाशङ्कनीयमिति । तस्मादाद्यन्तवत्त्वमुभयत्र समानमिति मिथ्यैव खलु ते स्मृताः ॥

स्वप्नस्य मिथ्यात्वमाद्यन्तवत्त्वान्न भवति, किं तु फलपर्यन्तत्वाभावात् । जागरितस्य फलपर्यन्तत्वान्न मिथ्यात्वमित्याशङ्क्याह –

सप्रयोजनतेति ।

फलपर्यन्तताराहित्योपाधेः साधनव्यापकत्वे फलितमाह –

तस्मादिति ।

जाग्रद्दृश्याभावा बहूक्त्या गृह्यन्ते ।

श्लोकस्य व्यावर्त्यामुपाध्याशङ्कामुत्थापयति –

स्वप्नेति ।

जाग्रद्दृश्यानामिव स्वप्नदृश्यानामपि तुल्यं सप्रयोजनत्वमित्युपाधेरसम्भवमाशङ्क्याऽऽह –

न त्विति ।

अनुमानस्य सोपाधिकत्वेनासाधकत्वे फलितमाह –

तस्मादिति ।

हेतोः सोपाधिकत्वं दूषयति –

तन्नेति ।

साधनव्याप्त्यादिदोषादृते नोपाधिनिरसनं सुशकमित्याह –

कस्मादिति ।

फलपर्यन्तताविरहित्वोपाधेः साधनव्याप्तिमाह –

यस्मादित्यादिना ।

तामेव विप्रतिपत्तिं प्रकटयति –

जागरिते हीति ।

उक्तमर्थं दृष्टान्तेन स्पष्टयति –

यथेत्यादिना ।

उपाधेः साधनव्याप्तिं निगमयति –

तस्मादिति ।

हेतोः सोपाधिकत्वाभावे फलितमाह –

अत इति ।

हेतुद्वयमुपसंहरति –

तस्मादिति ॥७॥