दृष्टान्तस्य साध्यविकलत्वं शङ्कित्वा परिहरति –
अपूर्वमिति ।
यथा स्वर्गनिवसनशीलानामिन्द्रादीनां सहस्राक्षत्वादि धर्मस्तथा यदिदमपूर्वस्वप्नदर्शनं मन्यसे तदपि स्थानिनः स्वप्नस्थानवतो द्रष्टुरेव धर्मः । तेन दृष्टत्वात् तस्य मिथ्यात्वसिद्धिरित्यर्थः।
कथं तेनैव दृष्टत्वं तत्राऽऽह –
तानयमिति ।
यथैवेह व्यवहारभूमौ सुशिक्षितो देशान्तरप्राप्तिमार्गस्तेन मार्गेण देशान्तरं गत्वा तत्रत्यान् पदार्थान् वीक्षते तथाऽयं स्वप्नद्रष्टा स्वप्नगतान् पदार्थान् यथोक्तप्रकारान् प्रतिपद्यते । ततश्च स्वप्नस्य स्थानिधर्मत्वाद् रज्जुसर्पादिवन्मिथ्यात्वमित्यर्थः।
श्लोकव्यावर्त्यामाशङ्कामुपन्यस्यति –
स्वप्नेति ।
समत्वमाद्यन्तवत्त्वादि ।
अनुमानसिद्धस्यार्थस्यानुमानदोषोक्तिमन्तरेणासत्त्वमयुक्तमिति पृच्छति –
कस्मादिति ।
व्याप्तिभूमिं दूषयन् व्याप्तिभङ्गं दोषमाह –
दृष्टान्तस्येति ।
असिद्धत्वं प्रश्नपूर्वकं विशदयति –
कथमित्यादिना ।
अपूर्वदर्शनमेव विवृणोति –
चतुर्दन्तमिति ।
अन्यदपि त्रिनेत्रत्वादि ।
दृष्टान्तस्य साध्यविकलत्वे सिद्धे प्रागुक्तानुमानानुपपत्तिरिति फलितमाह –
तस्मादिति ।
दृष्टान्तासिद्धिं दूषयन्ननुमानं साधयति –
तन्नेति ।
तत्किं स्वभावतः सिद्धं परतो वा ? नाऽऽद्यः ।
जडस्य तदयोगादित्याह –
न तदिति ।
द्वितीये तन्मिथ्यात्वमित्यभिप्रेत्य प्रश्नपूर्वकमाद्यपादमवतारयति –
किं तर्हीति ।
तद्गतान्यक्षराणि व्याकरोति –
स्थानिन इति ।
अपूर्वस्वप्नदर्शनस्य स्थानिधर्मत्वं दृष्टान्तेन साधयति –
यथेत्यादिना ।
अपूर्वदर्शनं स्वप्नद्रष्टृधर्मोऽपि चैतन्यवत् किं न स्यादित्याशङ्क्य बाधोपलब्धेर्मैवमित्याह –
न स्वत इति ।
उत्तरार्धं विभजते –
तानित्यादिना ।
अपूर्वाणां स्वप्नदृश्यानां स्थानिधर्मत्वेऽपि किमायातमित्याशङ्क्याऽऽह –
तस्मादिति ।
स्वप्नदृष्टान्तस्य साध्यविकलत्वाभावं निगमयति –
अतो नेति ।
पूर्वस्यापुर्वस्य वा स्वप्नदर्शनस्य स्वप्नद्रष्टृधर्मेत्वेन तदविद्याविलसितत्वाद् दृष्टान्ते साध्यसम्प्रतिपत्तेस्तथैव जाग्रद्भेदानां मिथ्यात्वं युक्तमित्यर्थः ॥८॥