माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
अपूर्वं स्थानिधर्मो हि यथा स्वर्गनिवासिनाम् ।
तानयं प्रेक्षते गत्वा यथैवेह सुशिक्षितः ॥ ८ ॥
स्वप्नजाग्रद्भेदयोः समत्वाज्जाग्रद्भेदानामसत्त्वमिति यदुक्तम् , तदसत् । कस्मात् ? दृष्टान्तस्यासिद्धत्वात् । कथम् ? न हि जाग्रद्दृश्या ये, ते भेदाः स्वप्ने दृश्यन्ते । किं तर्हि ? अपूर्वं स्वप्ने पश्यति चतुर्दन्तं गजमारूढोऽष्टभुजमात्मानम् । अन्यदप्येवंप्रकारमपूर्वं पश्यति स्वप्ने । तन्नान्येनासता सममिति सदेव । अतो दृष्टान्तोऽसिद्धः । तस्मात्स्वप्नवज्जागरितस्यासत्त्वमित्ययुक्तम् । तन्न । स्वप्ने दृष्टमपूर्वं यन्मन्यसे, न तत्स्वतः सिद्धम् । किं तर्हि ? अपूर्वं स्थानिधर्मो हि, स्थानिनो द्रष्टुरेव हि स्वप्नस्थानवतो धर्मः ; यथा स्वर्गनिवासिनामिन्द्रादीनां सहस्राक्षत्वादि, तथा स्वप्नदृशोऽपूर्वोऽयं धर्मः, न स्वतःसिद्धो द्रष्टुः स्वरूपवत् । तान् एवंप्रकारानपूर्वान्स्वचित्तविकल्पान् अयं स्थानी यः स्वप्नदृक्स्वप्नस्थानं गत्वा प्रेक्षते । यथैव इह लोके सुशिक्षितदेशान्तरमार्गस्तेन मार्गेण देशान्तरं गत्वा पदार्थान्पश्यति, तद्वत् । तस्माद्यथा स्थानिधर्माणां रज्जुसर्पमृगतृष्णिकादीनामसत्त्वम् , तथा स्वप्नदृश्यानामप्यपूर्वाणां स्थानिधर्मत्वमेवेत्यसत्त्वम् ; अतो न स्वप्नदृष्टान्तस्यासिद्धत्वम् ॥

दृष्टान्तस्य साध्यविकलत्वं शङ्कित्वा परिहरति –

अपूर्वमिति ।

यथा स्वर्गनिवसनशीलानामिन्द्रादीनां सहस्राक्षत्वादि धर्मस्तथा यदिदमपूर्वस्वप्नदर्शनं मन्यसे तदपि स्थानिनः स्वप्नस्थानवतो द्रष्टुरेव धर्मः । तेन दृष्टत्वात् तस्य मिथ्यात्वसिद्धिरित्यर्थः।

कथं तेनैव दृष्टत्वं तत्राऽऽह –

तानयमिति ।

यथैवेह व्यवहारभूमौ सुशिक्षितो देशान्तरप्राप्तिमार्गस्तेन मार्गेण देशान्तरं गत्वा तत्रत्यान् पदार्थान् वीक्षते तथाऽयं स्वप्नद्रष्टा स्वप्नगतान् पदार्थान् यथोक्तप्रकारान् प्रतिपद्यते । ततश्च स्वप्नस्य स्थानिधर्मत्वाद् रज्जुसर्पादिवन्मिथ्यात्वमित्यर्थः।

श्लोकव्यावर्त्यामाशङ्कामुपन्यस्यति –

स्वप्नेति ।

समत्वमाद्यन्तवत्त्वादि ।

अनुमानसिद्धस्यार्थस्यानुमानदोषोक्तिमन्तरेणासत्त्वमयुक्तमिति पृच्छति –

कस्मादिति ।

व्याप्तिभूमिं दूषयन् व्याप्तिभङ्गं दोषमाह –

दृष्टान्तस्येति ।

असिद्धत्वं प्रश्नपूर्वकं विशदयति –

कथमित्यादिना ।

अपूर्वदर्शनमेव विवृणोति –

चतुर्दन्तमिति ।

अन्यदपि त्रिनेत्रत्वादि ।

दृष्टान्तस्य साध्यविकलत्वे सिद्धे प्रागुक्तानुमानानुपपत्तिरिति फलितमाह –

तस्मादिति ।

दृष्टान्तासिद्धिं दूषयन्ननुमानं साधयति –

तन्नेति ।

तत्किं स्वभावतः सिद्धं परतो वा ? नाऽऽद्यः ।

जडस्य तदयोगादित्याह –

न तदिति ।

द्वितीये तन्मिथ्यात्वमित्यभिप्रेत्य प्रश्नपूर्वकमाद्यपादमवतारयति –

किं तर्हीति ।

तद्गतान्यक्षराणि व्याकरोति –

स्थानिन इति ।

अपूर्वस्वप्नदर्शनस्य स्थानिधर्मत्वं दृष्टान्तेन साधयति –

यथेत्यादिना ।

अपूर्वदर्शनं स्वप्नद्रष्टृधर्मोऽपि चैतन्यवत् किं न स्यादित्याशङ्क्य बाधोपलब्धेर्मैवमित्याह –

न स्वत इति ।

उत्तरार्धं विभजते –

तानित्यादिना ।

अपूर्वाणां स्वप्नदृश्यानां स्थानिधर्मत्वेऽपि किमायातमित्याशङ्क्याऽऽह –

तस्मादिति ।

स्वप्नदृष्टान्तस्य साध्यविकलत्वाभावं निगमयति –

अतो नेति ।

पूर्वस्यापुर्वस्य वा स्वप्नदर्शनस्य स्वप्नद्रष्टृधर्मेत्वेन तदविद्याविलसितत्वाद् दृष्टान्ते साध्यसम्प्रतिपत्तेस्तथैव जाग्रद्भेदानां मिथ्यात्वं युक्तमित्यर्थः ॥८॥