जाग्रद्दृश्यानां मिथ्यात्वं तेषु सदसद्विभागप्रतिभानविरुद्धमित्याशङ्क्य दृष्टान्तेन समाधत्ते –
स्वप्नवृत्ताविति ।
श्लोकस्य तात्पर्यार्थमाह –
अपूर्वत्वेति ।
स्वप्नदृष्टान्तस्यापूर्वदर्शनत्वप्रत्युक्तां साध्यविकलत्वशङ्कां परिहृत्येति यावत् । स्वप्नस्थाने सर्वस्य मिथ्यात्वाविशेषेऽपीत्यर्थः । असत्त्वं परमार्थसद्विलक्षणत्वेन मिथ्यात्वम् ।
तत्रापि तर्हि विभागप्रतिभासविरोधात्कुतो मिथ्यात्वमित्याशङ्क्य बाधाविशेषादित्याह –
उभयोरिति ॥९॥