माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
उभयोरपि वैतथ्यं भेदानां स्थानयोर्यदि ।
क एतान्बुध्यते भेदान्को वै तेषां विकल्पकः ॥ ११ ॥
चोदक आह — स्वप्नजाग्रत्स्थानयोर्भेदानां यदि वैतथ्यम् , क एतानन्तर्बहिश्चेतःकल्पितान्बुध्यते । को वै तेषां विकल्पकः ; स्मृतिज्ञानयोः क आलम्बनमित्यभिप्रायः ; न चेन्निरात्मवाद इष्टः ॥

सर्वमिथ्यात्वे प्रमातृप्रमाणादिव्यवहारानुपपत्त्या विशेषमाशङ्कते –

उभयोरिति ।

कर्तृकरणव्यवस्थानुपपत्त्याऽपि विरोधोऽस्तीत्याह –

को वा इति ।

विकल्पको निर्मातेति यावत् ।

श्लोकस्य चोद्यपरत्वं प्रतिजानीते –

चोदक इति ।

अक्षरयोजनया प्रथमार्थापत्तिविरोधं स्फोरयति –

स्वप्नेति ।

चतुर्थपादमवतार्यार्थापत्त्यन्तरविरोधं स्फुटयति –

को वै तेषामिति ।

कर्ता हि पूर्वानुभूतं स्मृत्वा तज्जातीयान्निर्मिमीते तेन स्मृत्यनुभवाश्रयाक्षेपेण कर्त्राक्षेपो विवक्षितस्तथा च कर्तादिव्यवहारानुपपत्तिः सर्वमिथ्यात्वे दुर्वारेत्यर्थः ।

योऽध्यात्मं प्रमाता यश्चाधिदैवं कर्तेश्वरस्तावभावपि मिथ्येत्यङ्गीकारात्प्रमात्रादेरसत्त्वमित्याशङ्क्याऽऽह –

न चेदिति ।

यदि प्रमाता कर्ता वा नेष्यते तर्हि नैरात्म्यमिष्टमेवाऽऽपद्यते । न च तदेष्टुं शक्यत आत्मनिराकरणस्य दुष्करत्वान्निराकर्तुरेवाऽऽत्मत्वादित्यर्थः ॥११॥