सर्वमिथ्यात्वे प्रमातृप्रमाणादिव्यवहारानुपपत्त्या विशेषमाशङ्कते –
उभयोरिति ।
कर्तृकरणव्यवस्थानुपपत्त्याऽपि विरोधोऽस्तीत्याह –
को वा इति ।
विकल्पको निर्मातेति यावत् ।
श्लोकस्य चोद्यपरत्वं प्रतिजानीते –
चोदक इति ।
अक्षरयोजनया प्रथमार्थापत्तिविरोधं स्फोरयति –
स्वप्नेति ।
चतुर्थपादमवतार्यार्थापत्त्यन्तरविरोधं स्फुटयति –
को वै तेषामिति ।
कर्ता हि पूर्वानुभूतं स्मृत्वा तज्जातीयान्निर्मिमीते तेन स्मृत्यनुभवाश्रयाक्षेपेण कर्त्राक्षेपो विवक्षितस्तथा च कर्तादिव्यवहारानुपपत्तिः सर्वमिथ्यात्वे दुर्वारेत्यर्थः ।
योऽध्यात्मं प्रमाता यश्चाधिदैवं कर्तेश्वरस्तावभावपि मिथ्येत्यङ्गीकारात्प्रमात्रादेरसत्त्वमित्याशङ्क्याऽऽह –
न चेदिति ।
यदि प्रमाता कर्ता वा नेष्यते तर्हि नैरात्म्यमिष्टमेवाऽऽपद्यते । न च तदेष्टुं शक्यत आत्मनिराकरणस्य दुष्करत्वान्निराकर्तुरेवाऽऽत्मत्वादित्यर्थः ॥११॥