माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
विकरोत्यपरान्भावानन्तश्चित्ते व्यवस्थितान् ।
नियतांश्च बहिश्चित्त एवं कल्पयते प्रभुः ॥ १३ ॥
सङ्कल्पयन्केन प्रकारेण कल्पयतीत्युच्यते — विकरोति नाना करोति अपरान् लौकिकान् भावान् पदार्थाञ्शब्दादीनन्यांश्च अन्तश्चित्ते वासनारूपेण व्यवस्थितानव्याकृतान् नियतांश्च पृथिव्यादीननियतांश्च कल्पनाकालान् बहिश्चित्तः सन् , तथा अन्तश्चित्तो मनोरथादिलक्षणानित्येवं कल्पयति, प्रभुः ईश्वरः, आत्मेत्यर्थः ॥

प्रकृतायां कल्पनायां विवक्षितं क्रममुपन्यस्यति –

विकरोतीति ।

नियतांश्चेति चकारादनियतांश्चेति विवक्ष्यते ।

प्रतिपित्सितक्रमप्रतिपत्त्यर्थं पृच्छति –

स कल्पयन्निति ।

श्लोकाक्षरयोजनया बुभुत्सितं क्रमं प्रत्याययति –

उच्यत इत्यादिना ।

अन्यांश्चेति ।

शास्त्रीयानिति यावत् । चित्तमध्ये वासनारूपेण व्यवस्थितान् ।

अनभिव्यक्तनामरूपत्वेन व्यवहारायोग्यत्वमाह –

अव्याकृतानिति ।

कल्पनाकालन्विद्युदादीनस्थिरानित्यर्थः । बहिश्चित्तो बहिर्मुखो बाह्यान् व्यवहारयोग्यान् पदार्थान् कल्पयति । अन्तश्चित्तस्तु तेभ्यो व्यावृत्तबुद्धिर्मनोरथादिलक्षणानात्मन्येव व्यवहारयोग्यतायै कल्पयतीत्यर्थः । एतदुक्तं भवति । यथा लोके कुलालो वा तन्तुवायो वा घटं पटं वा कार्यं चिकीर्षुरादौ व्यवहारायोग्यां व्यक्तिं बुद्धावाविर्भाव्य पश्चात्तामेव बहिर्नामरूपाभ्यां सम्पादयति तथैवायमादिकर्ताऽपि मायालक्षणे स्वचित्ते नामरूपाभ्यामव्यक्तरूपेण स्थितान्स्रष्टव्यपदार्थान् प्रथमं सिसृक्षिताकारेणान्तर्विभाव्य पश्चाद्बहिः सर्वप्रतिपत्तृसाधारणरूपेण सम्पादयतीति कल्पनायां क्रमाधिगतिरिति ॥१३॥