प्रकृतायां कल्पनायां विवक्षितं क्रममुपन्यस्यति –
विकरोतीति ।
नियतांश्चेति चकारादनियतांश्चेति विवक्ष्यते ।
प्रतिपित्सितक्रमप्रतिपत्त्यर्थं पृच्छति –
स कल्पयन्निति ।
श्लोकाक्षरयोजनया बुभुत्सितं क्रमं प्रत्याययति –
उच्यत इत्यादिना ।
अन्यांश्चेति ।
शास्त्रीयानिति यावत् । चित्तमध्ये वासनारूपेण व्यवस्थितान् ।
अनभिव्यक्तनामरूपत्वेन व्यवहारायोग्यत्वमाह –
अव्याकृतानिति ।
कल्पनाकालन्विद्युदादीनस्थिरानित्यर्थः । बहिश्चित्तो बहिर्मुखो बाह्यान् व्यवहारयोग्यान् पदार्थान् कल्पयति । अन्तश्चित्तस्तु तेभ्यो व्यावृत्तबुद्धिर्मनोरथादिलक्षणानात्मन्येव व्यवहारयोग्यतायै कल्पयतीत्यर्थः । एतदुक्तं भवति । यथा लोके कुलालो वा तन्तुवायो वा घटं पटं वा कार्यं चिकीर्षुरादौ व्यवहारायोग्यां व्यक्तिं बुद्धावाविर्भाव्य पश्चात्तामेव बहिर्नामरूपाभ्यां सम्पादयति तथैवायमादिकर्ताऽपि मायालक्षणे स्वचित्ते नामरूपाभ्यामव्यक्तरूपेण स्थितान्स्रष्टव्यपदार्थान् प्रथमं सिसृक्षिताकारेणान्तर्विभाव्य पश्चाद्बहिः सर्वप्रतिपत्तृसाधारणरूपेण सम्पादयतीति कल्पनायां क्रमाधिगतिरिति ॥१३॥