कल्पितानां कल्पनाकालादन्यस्मिन् काले सत्त्वाभावाज्जाग्रद्भावानां च कल्पनाकालात्कालान्तरेऽपि प्रत्यभिज्ञया सत्त्वावगमादनुपपन्नं तेषां मिथ्यात्वमित्यशङ्क्याऽऽह –
चित्तेति ।
ये कल्पनाकालभाविनो भावा मनस्यन्तर्वर्तन्ते ये च प्रत्यभिज्ञायमानत्वेन पूर्वापरकालभाविनो बहिरेव व्यवहारयोग्या दृश्यन्ते ते सर्वे कल्पिताः सन्तो मिथ्यैव भवितुमर्हन्ति। प्रत्यभिज्ञायमानत्वलक्षणो विशेषस्तु नाकल्पितत्वप्रयुक्तः, कल्पितेऽपि तद्दर्शनादित्यर्थः ।
श्लोकव्यावर्त्यामाशङ्कां दर्शयति –
स्वप्नवदिति ।
यथा स्वप्ने दृश्यमानं सर्वं कल्पितं मिथ्यैवेष्यते तथा जागरितेऽपि दृष्टं सर्वं चित्तस्पन्दितं तेन कल्पितं मिथ्यैवेत्येतन्नाद्यापि निर्धारितमित्यत्र हेतुमाह –
यस्मादिति ।
आत्माविद्याविवर्तेन चित्तेन तावदन्तर्विनिर्मिता मनोरथरूपा मनस्यन्तर्वर्तमाना बहि रज्जुसर्पादयश्च ते चित्तेनैव परिच्छिद्यन्ते । ते हि कल्पनकालमात्रभाविनो न प्रमीयन्ते । तैः सह वैलक्षण्यं मनसो बहिर्जाग्रद्दृश्यमानानां भावानामन्योन्यपरिच्छेद्यत्वं कालद्वयावच्छिन्नत्वेन प्रत्यभिज्ञागोचरत्वमिति यस्मादुपलभ्यते तस्मादयुक्तं जागरितस्य स्वप्नवन्मिथ्यात्वमित्यर्थः ।
श्लोकाक्षरैरुत्तरमाह –
सा नेति ।
ये मनस्यन्तर्मनोरथरूपा भावास्ते चित्तकाला भवन्तीत्यत्र चित्तकालत्वं विशदयति –
चित्तेत्यादिना ।
वाच्यार्थमुक्त्वा विवक्षितार्थमाह –
कल्पनेति ।
द्वितीयपादमवतार्य व्याकरोति –
द्वयेति ।
ये मनसो बहिरुपलभ्यन्ते ते भेदकालाः कालस्य भेदो भेदकालः स येषां ते तथेति व्युत्पत्तेः । ततश्चान्येन पूर्वेणान्येन चापरेण परिच्छेद्या भिन्नकालावच्छिन्नत्वेन प्रत्यभिज्ञायमाना इत्यर्थः ।
प्रत्यभिज्ञायमानत्वमुदाहरणनिष्ठतया स्फुटयति –
यथेति ।
आगोदोहनं गोदोहनपर्यन्तमास्ते देवदत्तस्तिष्ठतीति प्रत्यभिज्ञाशेषत्वेनाभिज्ञोदाहरणीया ।
यावता कालेनावच्छिन्नो वर्तते तावता कालेनावच्छिन्नो गोदोहनं निर्वर्तयतीत्यनेककालावस्थायित्वेन प्रत्यभिज्ञाविषयत्वं तस्य दर्शयति –
यावदिति ।
यावता कालेनायां घटोऽर्थक्रियां निर्वर्तयितुं शक्नोति तावता कालेनावच्छिन्नः सन्नेष तिष्ठतीत्युदाहरणान्तरमाह –
तावानिति ।
परोक्षतया स्थितो यावता कालेनावच्छिन्नः स्वकार्यं निर्वर्त्य निर्वृणोत्येतावता कालेनावच्छिन्नः स तिष्ठतीत्यपरमुदाहरणमाह –
एतावानिति ।
उक्तेन न्यायेन ते सर्वे भावा बहिर्दृश्यमाना द्वयकालेन कालद्वयेन परिच्छेद्या भवन्तीत्यर्थः ।
तृतीयपादं व्याचष्टे –
अन्तरिति ।
चतुर्थपादार्थमाह –
नेत्यादिना ।
बाह्यो जाग्रद्दृश्येषु बाह्यपदार्थेषु व्यवस्थितो द्वयकालत्वेन कालद्वयावच्छेदेन कृतः प्रत्यभिज्ञायमानत्वरूपो विशेषोऽन्यहेतुको न भवति ।
कल्पितेऽपि तथाविधविशेषसम्भवादित्यत्र दृष्टान्तमाह –
अत्रापि हीति ।
यद्यपि सर्वं जाग्रद्भेदजातं कल्पितं तथाऽपि तत्र यथोक्तो विशेषः स्फुटः सिध्यति स्वप्ने सर्वस्य भेदजातस्य कल्पितत्वेऽपि प्रत्यभिज्ञायमानत्वाज्जागरितेऽपि तदुपपत्तेरित्यर्थः ॥१४॥