स्वप्नजागरितयोरुभयोरपि मिथ्यात्वे स्फुटस्फुटावभासविभागानुपपत्तेर्नाविशेषेण मिथ्यात्वमित्याशङ्क्याऽऽह –
अव्यक्ता इति ।
ये मनस्यन्तर्भावनारूपत्वादस्फुटा ये च मनसो बहिरुपलभ्यमानाः स्फुटा भवन्ति ते सर्वे मनःस्पन्दनमात्रत्वेन कल्पिताः । मिथ्यैवान्तर्बहिरिन्द्रियभेदनिमित्तः स्फुटत्वास्फुटत्वविशेषः । न मिथ्यात्वममिथ्यात्वं वा तत्रोपयुज्यते । मिथ्याभूतेष्वपि तद्दर्शनादित्यर्थः ।
श्लोकाक्षराणि व्याकरोति –
यदपीत्यादिना ।
मनस्यन्तर्मनोरथरूपाणां भावानामव्यक्तत्वमस्फुटत्वम् ।
तत्र हेतुमाह –
मन इति ।
चक्षुरादिग्राह्यत्वेन मनसो बहिर्भावानां स्फुटत्वं दृष्टं तदेषाममिथ्यात्वकृतमिति शङ्कां वारयति –
नासाविति ।
सर्वसम्प्रतिपन्नमिथ्यात्वेऽपि स्वप्ने स्फुटत्वास्फुटत्वविशेषप्रतिभानान्नासौ विशेषो मिथ्यात्वममिथ्यात्वं वा प्रयोजयितुं प्रभवतीत्याह –
स्वप्नेऽपीति ।
अयं विशेषस्तर्हि केन सिध्यतीत्याशङ्क्य चतुर्थपादार्थमाह –
किं तर्हीति ।
मनोमात्रसम्बन्धादन्तर्भावानां वासनामात्ररूपाणामस्फुटत्वम्। बहिर्भावानां तु चक्षुरादिबहिरिन्द्रियसम्बन्धाद्युक्तं स्फुटत्वं तदेष विशेषो मिथ्यात्वाविशेषेऽपि सिध्यतीत्यर्थः ।
स्फुटत्वास्फुटत्वप्रतिभासभेदस्य मिथ्यात्वेऽपि सम्भवात् प्रगुक्तमनुमानमविरुद्धमित्युपसंहरति –
अत इति ॥१५॥