भवतु सर्वस्य कल्पितत्वम् । सा पुनः सर्वकल्पना केन द्वारेणथाशङ्क्याऽऽह –
जीवमिति ।
आत्मा हि सर्वं मायावशेन कल्पयन्नादौ विशिष्टरूपेण जीवं कल्पयति ।
तत इति ।
‘तत्सृष्ट्वा तदेवानुप्राविशत्’(तै. उ. २ । ६ । १) इति श्रुतेः स्वयमेव जीवभावमापद्यते । तद्द्वारेण पुनर्नानाविधान् भावन्निर्मिमीते । ज्ञानस्मृतिवैषम्यात्तत्कल्पेषु भावेषु वैषम्योपपतिरित्यर्थः ।
श्लोकव्यावर्त्यं प्रश्नमुत्थापयति –
बाह्येति ।
पदार्थाः साध्यसाधनतया स्थिता बाह्याः, सुखं दुःखं ज्ञानं रागश्चेत्येवमादयस्त्वाध्यात्मिकास्तेषां परस्परं निमित्तनैमित्तिकताऽस्ति । बाह्यान्निमित्तीकृत्याऽऽध्यात्मिका भवन्ति । तानपि निमित्तीकृत्येतरे जायन्ते । तदेवमितरेतरनिमित्ततया नैमित्तिकतया च कल्पनायां मूलं वक्तव्यम् । निर्मूलकल्पनायामतिप्रसङ्गादित्यर्थः ।
श्लोकाक्षरयोजनया परिहरति –
उच्यत इति ।
हेतुफलात्मकमित्युक्तमेव व्यनक्ति –
अहमिति ।
हेतुफलभावविकलं परिशुद्धमात्मरूपं जीवकल्पनाधिष्ठानं दर्शयति –
अनेवमिति ।
आरोपस्याधिष्ठानापेक्षाऽऽस्तीत्यत्र दृष्टान्तमाह –
रज्ज्वामिवेति ।
द्वितीयतृतीयपादौ विभजते –
तत इति ।
तादर्थ्येन प्रथमं कल्पितस्य भोक्तुर्जीवस्य शेषत्वेनेत्यर्थः ।
यद्यपि जीवः सर्वकल्पनायां मूलभूतो हेतुस्तथाऽपि तस्य तत्र कल्पनाविशेषो विशेषहेतुव्यतिरेकेण न सम्भवतीति शङ्कते –
तत्रेति ।
चतुर्थपादेनोत्तरमाह –
उच्यत इति ।
कल्पितो विशिष्टरूपेणेति शेषः। अधिकृतः स्वामित्वेन सम्बद्धः इत्यर्थः। इतिशब्दः श्लोकाक्षरयोजनासमाप्तिद्योतनार्थः।
प्रकृतकल्पनामेव प्रपञ्चयति –
अत इत्यादिना ।
सत्यन्नपानाद्युपयोगे तृप्त्यादि भवति, असति न भवतीत्यन्वयव्यतिरेकरूपान्न्यायाद्भोजनादिकं हेतुरिति कल्पनाविज्ञानमुत्पद्यते। ततस्तृप्त्यादिकं फलमिति कल्पनाविज्ञानं जायते। ततोऽपरेद्युरुक्तयोरुभयोरपि हेतुफलयोः स्मृतिरुद्भवति। ततश्च फलसाधनसमानजातीये कर्तव्यताविज्ञानम् । ततश्चाभिलषिततृप्त्यादिफलार्थत्वेन पाकादिक्रिया तत्कारकं तण्डुलादि तत्फलान्यन्ननिष्पत्त्यादीनि विशेषविज्ञानादीनि भवन्ति। ततो हेत्वादिस्मृतिः। ततस्तदनुष्ठानम्। ततश्च फलम्। इत्यानेन क्रमेण मिथो हेतुहेतुमत्तया कल्पना भवतीत्यर्थः।
प्रकृतां कल्पनामुपसंहरति –
एवमिति ॥ १६॥