माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
जीवं कल्पयते पूर्वं ततो भावान्पृथग्विधान् ।
बाह्यानाध्यात्मिकांश्चैव यथाविद्यस्तथास्मृतिः ॥ १६ ॥
बाह्याध्यात्मिकानां भावानामितरेतरनिमित्तनैमित्तिकतया कल्पनायाः किं मूलमित्युच्यते — जीवं हेतुफलात्मकम् ‘अहं करोमि, मम सुखदुःखे’ इत्येवंलक्षणम् । अनेवंलक्षण एव शुद्ध आत्मनि रज्ज्वामिव सर्पं कल्पयते पूर्वम् । ततस्तादर्थ्येन क्रियाकारकफलभेदेन प्राणादीन्नानाविधान्भावान्बाह्यानाध्यात्मिकांश्चैव कल्पयते । तत्र कल्पनायां को हेतुरित्युच्यते — योऽसौ स्वयं कल्पितो जीवः सर्वकल्पनायामधिकृतः, सः यथाविद्यः यादृशी विद्या विज्ञानमस्येति यथाविद्यः, तथाविधैव स्मृतिस्तस्येति तथास्मृतिर्भवति स इति । अतो हेतुकल्पनाविज्ञानात्फलविज्ञानम् , ततो हेतुफलस्मृतिः, ततस्तद्विज्ञानम् , ततः तदर्थक्रियाकारकतत्फलभेदविज्ञानानि, तेभ्यस्तत्स्मृतिः, तत्स्मृतेश्च पुनस्तद्विज्ञानानि इत्येवं बाह्यानाध्यात्मिकांश्च इतरेतरनिमित्तनैमित्तिकभावेनानेकधा कल्पयते ॥

भवतु सर्वस्य कल्पितत्वम् । सा पुनः सर्वकल्पना केन द्वारेणथाशङ्क्याऽऽह –

जीवमिति ।

आत्मा हि सर्वं मायावशेन कल्पयन्नादौ विशिष्टरूपेण जीवं कल्पयति ।

तत इति ।

‘तत्सृष्ट्वा तदेवानुप्राविशत्’(तै. उ. २ । ६ । १) इति श्रुतेः स्वयमेव जीवभावमापद्यते । तद्द्वारेण पुनर्नानाविधान् भावन्निर्मिमीते । ज्ञानस्मृतिवैषम्यात्तत्कल्पेषु भावेषु वैषम्योपपतिरित्यर्थः ।

श्लोकव्यावर्त्यं प्रश्नमुत्थापयति –

बाह्येति ।

पदार्थाः साध्यसाधनतया स्थिता बाह्याः, सुखं दुःखं ज्ञानं रागश्चेत्येवमादयस्त्वाध्यात्मिकास्तेषां परस्परं निमित्तनैमित्तिकताऽस्ति । बाह्यान्निमित्तीकृत्याऽऽध्यात्मिका भवन्ति । तानपि निमित्तीकृत्येतरे जायन्ते । तदेवमितरेतरनिमित्ततया नैमित्तिकतया च कल्पनायां मूलं वक्तव्यम् । निर्मूलकल्पनायामतिप्रसङ्गादित्यर्थः ।

श्लोकाक्षरयोजनया परिहरति –

उच्यत इति ।

हेतुफलात्मकमित्युक्तमेव व्यनक्ति –

अहमिति ।

हेतुफलभावविकलं परिशुद्धमात्मरूपं जीवकल्पनाधिष्ठानं दर्शयति –

अनेवमिति ।

आरोपस्याधिष्ठानापेक्षाऽऽस्तीत्यत्र दृष्टान्तमाह –

रज्ज्वामिवेति ।

द्वितीयतृतीयपादौ विभजते –

तत इति ।

तादर्थ्येन प्रथमं कल्पितस्य भोक्तुर्जीवस्य शेषत्वेनेत्यर्थः ।

यद्यपि जीवः सर्वकल्पनायां मूलभूतो हेतुस्तथाऽपि तस्य तत्र कल्पनाविशेषो विशेषहेतुव्यतिरेकेण न सम्भवतीति शङ्कते –

तत्रेति ।

चतुर्थपादेनोत्तरमाह –

उच्यत इति ।

कल्पितो विशिष्टरूपेणेति शेषः। अधिकृतः स्वामित्वेन सम्बद्धः इत्यर्थः। इतिशब्दः श्लोकाक्षरयोजनासमाप्तिद्योतनार्थः।

प्रकृतकल्पनामेव प्रपञ्चयति –

अत इत्यादिना ।

सत्यन्नपानाद्युपयोगे तृप्त्यादि भवति, असति न भवतीत्यन्वयव्यतिरेकरूपान्न्यायाद्भोजनादिकं हेतुरिति कल्पनाविज्ञानमुत्पद्यते। ततस्तृप्त्यादिकं फलमिति कल्पनाविज्ञानं जायते। ततोऽपरेद्युरुक्तयोरुभयोरपि हेतुफलयोः स्मृतिरुद्भवति। ततश्च फलसाधनसमानजातीये कर्तव्यताविज्ञानम् । ततश्चाभिलषिततृप्त्यादिफलार्थत्वेन पाकादिक्रिया तत्कारकं तण्डुलादि तत्फलान्यन्ननिष्पत्त्यादीनि विशेषविज्ञानादीनि भवन्ति। ततो हेत्वादिस्मृतिः। ततस्तदनुष्ठानम्। ततश्च फलम्। इत्यानेन क्रमेण मिथो हेतुहेतुमत्तया कल्पना भवतीत्यर्थः।

प्रकृतां कल्पनामुपसंहरति –

एवमिति ॥ १६॥