इदानीं जीवकल्पनानिमित्तं निरूपयति –
अनिश्चितेति ।
श्लोकस्य तत्पर्यं दर्शयितुं वृत्तं कीर्तयति –
तत्रेति ।
पूर्वश्लोकः सप्तम्यर्थः।
जीवकल्पनाया नित्यत्वायोगात् सनिमित्तत्वस्य वक्तव्यत्वात्तस्य च वस्तुत्वे निवृत्त्यनुपपत्तेः अवस्तुत्वे च निमित्तत्वासिद्धेर्जीवकल्पनाया दुर्घटत्वात्तत्कार्यभूताऽपि कल्पना नावकल्पत इत्याशङ्कते –
सैवेति ।
उत्तरत्वेन श्लोकाक्षराण्यवतार्य व्याचष्टे –
दृष्टान्तेनेति ।
स्वम् असाधारणं रूपं रज्जुत्वं तेनेति यावत् ।
अनवधारितत्वमेव स्फोरयति –
एवमेवेति ।
रज्जुरेवेयमित्यनेन प्रकारेणेत्यर्थः।
उक्तावधारणाराहित्ये कारणं सूचयति –
मन्देति ।
पूर्वं रज्जुस्वरूपनिश्चयात्प्रागवस्थायामित्यर्थः।
सर्पादिकल्पनायामन्वयव्यतिरेकसिद्धमुपादानमुपन्यस्यति –
स्वरूपेति ।
एतदेव व्यतिरेकद्वारा विवृणोति –
यदि हीति ।
देवदत्तस्य हस्ताद्यवयवेषु तद्रूपेणैव निश्चितेषु सर्पादिविकल्पो यथा नोपलभ्यते तथा पुरोवर्तिन्यपि रज्जुस्वरूपेण निश्चिते नासौ युक्तस्तथा च रज्ज्वज्ञानादेव स भवतीत्यर्थः।
उपपादितं दृष्टान्तमनूद्य दार्ष्टान्तिकमभिदधानश्चतुर्थपादार्थमाह –
एष इति ।
हेतुफलादीत्यादिशब्देन कर्तृत्वभोक्तृत्वरागद्वेषादि गृह्यते।
विलक्षणत्वमेव स्फुटयति –
स्वेनेति ।
अनारोपितेनेति यावत्। विज्ञप्तेर्विशुद्धत्वं जन्मादिराहित्यमाकारान्तरशून्यत्वं तन्मात्रत्वं चेत्यर्थः।
तन्मात्रत्वमयुक्तं सामन्यविशेषभावादित्याशङ्क्याऽऽह –
सत्तेति ।
न च तत्रान्यदस्ति सुखमिति मत्वा विशिनष्टि –
अद्वयेति ।
सच्चिदानन्दाद्वयात्माविद्याविलसितं द्वैतमित्यत्र प्रमाणं सूचयति –
इत्येष इति ।
अद्वैतश्रुतयस्तावत्तत्रोपलभ्यन्ते ‘यत्र हि द्वैतमिव भवति’(बृ. उ. २ । ४ । १४) इत्याद्याश्च द्वैततत्प्रतिभासयोर्मृषात्वमावेदयन्त्यः श्रुतयः श्रूयन्ते तेनाद्वैतं तत्त्वं द्वैतमविद्याविजृम्भितमिति प्रमाणसिद्धमित्यर्थः॥१७॥