अविद्याकृता जीवकल्पनेत्यन्वयमुखेनोक्तं तदेवेदानीं व्यतिरेकमुखेन दर्शयति –
निश्चितायामिति ।
रज्जुरेवेति रज्ज्वां निश्चितायां तदज्ञाननिवृत्तेस्तदुत्थसर्पादिविकल्पः सर्वथा निवर्तते रज्जुमात्रं चाविश्ष्यते तद्वदात्मनि श्रौतो निश्चयो यदा सम्पद्यते तदा सर्वस्याऽऽत्माविद्याकल्पितस्य जीवादिविकल्पस्य व्यावृत्तेरद्वैतमेवाऽऽत्मतत्त्वं परिशिष्यते तस्मादात्माविद्याविजृम्भिता जीवकल्पनेत्यर्थः।
दृष्टान्तभागं व्याचष्टे –
रज्जुरिति ।
तद्वदित्यादि व्याकरोति –
तथेति ।
सर्वस्यापि संसारात्मनो धर्मस्याऽऽत्मन्यारोपितस्यासत्त्वावेदकं यन्निषेधशास्त्रं तेन जनितं विज्ञानमेव सूर्यालोकस्तत्कृतो योऽयमात्मविनिश्चयः स एवाद्वितीयः शिष्यते। द्वैतं पुनः सर्वमेव व्यावृत्तं भवतीत्यर्थः।
आत्मविनिश्चयमेव विशिनष्टि –
आत्मैवेति ।
सर्वमिदमात्मैवेत्युक्तेः पूर्णत्वं तस्योच्यते पूर्वभाविना कारणेन संस्पर्शशून्योऽपूर्वः पश्चाद्भाविना कार्येण सम्बन्धविधुरोऽनपरः अन्तरं छिद्रं तच्छून्योऽनन्तरश्चिदेकरसस्तस्यैव प्रत्यक्त्वमबाह्यत्वं कार्यकारणास्पृष्टमुभयकल्पनाधिष्ठानत्वेन ततोऽर्थान्तरत्वादित्याह –
सबाह्येति।
विशेषणत्रयं कौटस्थ्यव्यवस्थापनार्थम्।
जन्मादिसम्बन्धाभावे कारणमविद्यासम्बन्धराहित्यं दर्शयति –
अभय इति ।
न खल्वविद्या तत्र कारणत्वेन सम्बन्धमनुभवति।
तस्य पूर्णत्वेन कारणानपक्षत्वादित्याह –
एक इति ।
द्वैताद्वैतव्यावृत्त्यर्थमवधारणम्। नन्वविद्यायाः निराश्रयत्वोपपत्तेः आश्रयान्तरस्य चासत्त्वात् तत्रैव सा प्रविशतीति चेत् सत्यम्।
अविद्वद्दृष्ट्या तस्यास्तत्र प्रवेशेऽपि वस्तुदृष्ट्या नासौ तस्मिन् प्रवेष्टुं प्रभवतीत्याह –
अद्वय इति ॥१८॥