माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
प्राणादिभिरनन्तैस्तु भावैरेतैर्विकल्पितः ।
मायैषा तस्य देवस्य ययायं मोहितः स्वयम् ॥ १९ ॥
यदि आत्मैक एवेति निश्चयः, कथं प्राणादिभिरनन्तैर्भावैरेतैः संसारलक्षणैर्विकल्पित इति ? उच्यते शृणु — मायैषा तस्यात्मनो देवस्य । यथा मायाविना विहिता माया गगनमतिविमलं कुसुमितैः सपलाशैस्तरुभिराकीर्णमिव करोति, तथा इयमपि देवस्य माया, यया अयं स्वयमपि मोहित इव मोहितो भवति । ‘मम माया दुरत्यया’ (भ. गी. ७ । १४) इत्युक्तम् ॥

आत्मनोऽद्वितीयत्वे कथमनेकैर्भावैस्तस्य विकल्पितत्वमित्यभिप्रायाप्रतिपत्त्या प्रत्यवतिष्ठते –

प्राणादिभिरिति ।

सिद्धान्ती स्वाभिसन्धिमुद्घाटयन्नुत्तरमाह –

मायेति ।

चोद्यभागं विभजते –

यदीति ।

उत्तरार्धमुत्तरत्वे व्याकरोति –

उच्यत इति ।

मायामेव दृष्टान्तेन स्पष्टयति –

यथेति ।

तामेव मायां कार्यद्वारा स्फोरयति –

ययेति ।

यथा लौकिको मोहितो मोहपरवशो दृश्यते तथाऽयमात्मा स्वयमेव मायासम्बन्धान्मोहितो भवति। अतो मोहद्वाराऽऽत्मन्येव मायाधिगतिरित्यर्थः।

मायाया मोहहेतुत्वं भगवताऽपि सूचितमित्याह –

ममेति ॥१९॥