माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
प्राण इति प्राणविदो भूतानीति च तद्विदः ।
गुणा इति गुणविदस्तत्त्वानीति च तद्विदः ॥ २० ॥

के ते प्राणादयोऽनान्ता भावा यैरात्मा विकल्प्यते माययेत्यपेक्षायां प्राणादिविकल्पनामुदाहरति –

प्राण इति ।

प्राणो हिरण्यगर्भस्तटस्थेश्वरो वा स जगतो हेतुरिति प्राणविदो हैरण्यगर्भाद्या वैशेषिकादयश्च कल्पयन्ति। तदिदं कल्पनामात्रम्। स्वप्नतन्त्रस्य हिरण्यगर्भस्य सर्वजगद्धेतुत्वे मानाभावात्। पौरुषेयागमस्यापौरुषेयश्रुतिविरोधे स्वार्थे मानत्वायोगात्, तटस्थेश्वरवादस्य च प्रमाणयुक्तिविहीनस्य प्रतिपत्तुमशक्यत्वादित्यर्थः।

कल्पनान्तरं दर्शयति –

भूतानीति चेति ।

पृथिव्यप्तेजोवायवस्तत्त्वानि, तानि च चत्वारि भूतानि जगत्कारणानीति – लोकायतिकाः । तदपि कल्पनामात्रम्। न हि भूतानि स्वतः सिद्धानि, जडत्वविरोधात्। नापि परतः सिद्धानि, स्वगुणस्य चैतन्यस्य स्वग्राहकत्वायोगाद् वह्निगतौष्ण्यस्य वह्निविषयत्वादर्शनात्। अतो भूतानि जगत्कर्तॄणीति कल्पनैवेत्यर्थः। सत्त्वरजस्तमांसि त्रयो गुणाः साम्येनावस्थिता जगतो महदादिलक्षणस्य कारणमिति – साङ्ख्याः तदपि कल्पनामात्रम्। साम्येन स्थितानां कारणत्वे प्रलयाभावप्रसङ्गात्। वैषम्यभजनस्य च निर्हेतुकत्वे सदा तदापातात्।

सहेतुकत्वे हेतोर्नित्यत्वे प्राचीनदोषानुषङ्गादनित्यत्वे हेत्वन्तरापेक्षायामनवस्थानादित्याह –

गुणा इतीति ।

कल्पनान्तरमाह –

तत्त्वानीति चेति ।

आत्माऽविद्या शिव इति संक्षेपतस्त्रीणि तत्त्वानि सर्वजगत्प्रवर्तकानीति – शैवा मन्यन्ते। तदपि कल्पनामात्रम्। आत्मनो भिन्नत्वे शिवस्य घटादितुल्यत्वप्रसङ्गादभिन्नत्वे तत्त्वानां त्रित्वव्याघातादित्यर्थः॥२०॥