ऋग्वेदादयो वेदाश्चत्वारस्तत्त्वानीति – पाठका वदन्ति। तदपि कल्पनामात्रम्। न हि वेदा लौकिकवर्णव्यतिरिक्ता दृश्यन्ते। क्रमवतामेव वर्णानां वेदशब्दवाच्यत्वाङ्गीकारात्। क्रमश्चोच्चारणोपलब्ध्योरन्यतरगतो वर्णेष्वारोप्यते। तथा च तथाविधक्रमवतां वर्णानामारोपितरूपेण वेदशब्दवाच्यत्वात् कुतो वेदानां परमार्थतेथाह –
वेदा इति ।
ज्योतिष्टोमादयो यज्ञा वस्तुभूता भवन्तीति बोधायन प्रभृतयो – याज्ञिका मन्यन्ते। तदपि भ्रान्तिमात्रम्। ‘यज्ञं व्याख्यास्यामो द्रव्यं देवता त्याग’ इत्यत्रैकैकस्मिन् यज्ञविज्ञानाभावात् समुदायस्यावस्तुत्वादित्याह –
यज्ञा इति चेति ।
भोक्तैवाऽऽत्मा न कर्तेति –
साङ्ख्याः ।
तत्र भोगो यदि विक्रिया स्वीक्रियते, तर्हि कथं नानित्यत्वादिप्रसङ्गः ? स्वभावत्वे सदा स्यादिति विषयसन्निधौ भोक्तृत्वं भ्रान्तिरेवेत्याह –
भोक्तेति चेति ।
सूपकारास्तु भोज्यं वस्त्विति प्रतिजानते तदपि न। मधुरादिरसव्यञ्जनादेस्तदैवान्यथात्वदर्शनादैकरूप्यासम्भवादित्याह –
भोज्यमिति चेति ॥२२॥