माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
सूक्ष्म इति सूक्ष्मविदः स्थूल इति च तद्विदः ।
मूर्त इति मूर्तविदोऽमूर्त इति च तद्विदः ॥ २३ ॥

आत्मा सूक्ष्मोऽणुपरिमाणः स्यादिति केचित्। तन्न। युगपदशेषशरीरव्यापिवेदनानुसन्धानासिद्धेरित्याह –

सूक्ष्म इतीति ।

स्थूलो देहोऽहंप्रत्ययादात्मेति –

लोकायतभेदः ।

तच्च न । मृतसुषुप्तयोरपि सङ्घाताविशेषाच्चैतन्यप्रसङ्गात् ।

एकैकस्य च भूतस्य चैतन्यादर्शनात् सङ्घातस्य चावस्तुत्वादित्याह –

स्थूल इति चेति ।

मूर्तस्त्रिशूलादिधारी महेश्वरश्चक्रधारी वा परमार्थो भवतीत्यागमिकाः । तदपि भ्रान्तिमात्रम्। अस्मदादिशरीरवत् तस्यापि शरीरस्य पाञ्चभौतिकत्वात्।

लीलाविग्रहकल्पनं च विग्रहाभावे लीलाभावादयुक्तमित्याह –

मूर्त इति ।

अमूर्तः सर्वाकारशून्यो निःस्वभावः परामर्थ इति – शून्यवादिनस्तदपि कल्पनामात्रम्। परमार्थो निःस्वभावाश्चेति व्याघातादित्याह –

अमूर्त इति चेति ॥२३॥