माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
काल इति कालविदो दिश इति च तद्विदः ।
वादा इति वादविदो भुवनानीति तद्विदः ॥ २४ ॥

कालः परमार्थ इति – ज्योतिर्विदः । तच्च न। कालैक्ये मुहूर्तादिव्यवहारायोगात्। तन्नानात्वेऽपि न स्वातन्त्र्यम्। अन्यविषयत्वेन प्रतीतेः। उदयकालः इत्यादिना क्रियाधर्मत्वेन प्रतीतेः स्फुटत्वात्। न च क्रियाधर्मत्वं कालेऽपि तदुत्पत्तिदर्शनादन्यथा कालानवच्छिन्नत्वेन क्रियानित्यत्वापातादित्याह –

काल इतीति ।

स्वारोदयविदस्तु दिशः परमार्था इत्याहुः। तदपि भ्रान्तिमात्रम्। तद्विदामति पराजयदर्शनादित्याह –

दिश इति चेति ।

धातुवादो मन्त्रवादश्चेत्यादयो वाद वस्तुभूता भवन्तीति केचित्। तदपि कल्पनामात्रम्। ताम्रादिस्वभावे स्थिते नष्टे च कनकादिस्वभावासम्भवात्।

मन्त्रवादेऽपि कालदष्टो न जीवति अकालदष्टः स्वयमेवोत्थास्यतीत्यभ्युपगमाद्व्यामोह मात्रमित्याह –

वादा इतीति ।

भुवनानि चतुर्दश वस्तूनीति – भुवनकोशविदः । तदपि कल्पनामात्रम्। तेषामदृष्टत्वात्। न च तेभ्यस्तद्दर्शनम्। तेषां मिथो विप्रतिपत्तिदर्शनादित्याह –

भुवनानीति ॥२४॥