प्रधानं मूलप्रकृतिः। महदहङ्कारतन्मात्राणीति सप्त प्रकृतिविकृतयः। पञ्चज्ञानेन्द्रियाणि, पञ्च कर्मेन्द्रियाणि, पञ्च विषयाः, मनश्चैकमिति षोडश विकाराः। पुरुषस्तु दृशिस्वभाव इति पञ्चविंशतिसंख्याकः प्रपञ्चो वस्त्विति –
साङ्ख्याः ।
तच्च कल्पनामात्रम्।
पञ्चविंशतिविशेषणस्याव्यावर्तकत्वे वैयर्थ्याद् व्यावर्तकत्वे च व्यावर्त्यप्रमित्यप्रमित्योरनुपपत्तेरित्याह –
पञ्चविंशक इति ।
पातञ्जलाः पुनरीश्वरमधिकं पश्यन्तः षड्विंशतिः पदार्था इति कल्पयन्ति। तदयुक्तम्। ईश्वरस्य पुरुषान्तर्भावादधिकत्वानुपपत्तेः।
अनन्तर्भावे च घटवदनीश्वरत्वप्रसङ्गादित्याह –
षड्विंश इति चेति ।
पाशुपतास्तु रागाविद्यानियतिकालकलामायाधिकास्त एवैकत्रिशंत्पदार्था इति ब्रुवते। तन्न। क्लेशत्वेऽपि रागाविद्ययोरवान्तरभेदवदस्मितादेरपि तद्भिन्नत्वेन संख्यातिरेकात् तस्य रागोपलक्षितत्वे तस्याप्यविद्योपलक्षितत्वेन न्यूनतापातादविद्यामाययोश्चैकत्वादवान्तरभेदे च नियतावपि तदुपपत्तेः संख्यातिरेकतादवस्थ्यम्।
कालकलासु च तत्प्रसिद्धेरित्याह –
एकत्रिंशक इति ।
अनन्तः पदार्थभेदो न नियतोऽस्तीति केचित्। तदपि न। वादिनां विवाददर्शनात्।
विवादस्य चाज्ञानमूलकत्वादित्याह –
अनन्त इतीति ॥२६॥