लोकानुरञ्जनमेव तत्त्वमिति –
लौकिकाः ।
तदपि विभ्रममात्रम्।
लोकस्य भिन्नरुचित्वात् तदनुरञ्जनस्येश्वरेणापि कर्तुमशक्यत्वादित्याह –
लोकानिति ।
दक्षप्रभृतयस्त्वाश्रमाः परमार्था इति समर्थयन्ते। तदसत्। वेषस्याऽऽश्रमशब्दार्थत्वे शूद्रादेरपि प्रसङ्गाज्जातेश्च दुर्विवेचत्वात्तन्मूलस्याऽऽश्रमस्य दर्शयितुमशक्यत्वात् संस्कारस्य च देहसमवायित्वे पारलौकिकत्वायोगादसङ्गे चाऽऽत्मनि तदसमवायादित्याह –
आश्रमा इतीति ।
वैयाकरणास्तु स्त्री पुंनपुंसकं शब्दजातं तत्त्वमिति वर्णयन्ति। तदप्ययुक्तम्।
स्त्र्यादेः शब्दस्वभावत्वे सर्वादीनां त्रिलिङ्गत्वायोगादेकस्यानेकस्वभावत्वासम्भवादौपाधिकधर्मत्वे च तस्यावस्तुत्वप्रसङ्गादित्याह –
स्त्रीपुंनपुंसकमिति ।
द्वे ब्रह्मणी वेदितव्ये परं चापरं चेति केचित्। तच्च न।
परिच्छेदे क्वचिदपि ब्रह्मत्वायोगाद् वस्तुतोऽपरिच्छिन्नस्य तद्भावादित्याह –
परापरमिति ॥२७॥