माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
सृष्टिरिति सृष्टिविदो लय इति च तद्विदः ।
स्थितिरिति स्थितिविदः सर्वे चेह तु सर्वदा ॥ २८ ॥
प्राणः प्राज्ञो बीजात्मा, तत्कार्यभेदा हीतरे स्थित्यन्ताः । अन्ये च सर्वे लौकिकाः सर्वप्राणिपरिकल्पिता भेदा रज्ज्वामिव सर्पादयः । तच्छून्ये आत्मन्यात्मस्वरूपानिश्चयहेतोरविद्यया कल्पिता इति पिण्डितोऽर्थः । प्राणादिश्लोकानां प्रत्येकं पदार्थव्याख्याने फल्गुप्रयोजनत्वात्सिद्धपदार्थत्वाच्च यत्नो न कृतः ॥

सृष्टिर्वा लयो वा स्थितिर्वा तत्त्वमिति –

पौराणिकाः ।

तदपि कल्पनामात्रम्।

सतोऽसतश्चोत्पत्त्याद्यभावस्य वक्ष्यमाणत्वादिति मत्वाऽऽह –

सृष्टिरित्यादिना ।

यथोक्तकल्पनानामधिष्ठानं सूचयति –

सर्वे चेति ।

उदाहृताश्चानुदाहृताश्च कल्पनाभेदा यावन्तो विद्यन्ते ते सर्वेऽपि प्रकृतात्मन्येव कल्पनावस्थायां कल्प्यन्ते, नाऽऽत्मनः कल्पितत्वम्। सर्वस्य कल्पितत्वेनाधिष्ठानत्वायोगादित्यर्थः।