सृष्टिर्वा लयो वा स्थितिर्वा तत्त्वमिति –
पौराणिकाः ।
तदपि कल्पनामात्रम्।
सतोऽसतश्चोत्पत्त्याद्यभावस्य वक्ष्यमाणत्वादिति मत्वाऽऽह –
सृष्टिरित्यादिना ।
यथोक्तकल्पनानामधिष्ठानं सूचयति –
सर्वे चेति ।
उदाहृताश्चानुदाहृताश्च कल्पनाभेदा यावन्तो विद्यन्ते ते सर्वेऽपि प्रकृतात्मन्येव कल्पनावस्थायां कल्प्यन्ते, नाऽऽत्मनः कल्पितत्वम्। सर्वस्य कल्पितत्वेनाधिष्ठानत्वायोगादित्यर्थः।
प्राणादिश्लोकेषु प्राणशब्दार्थमाह –
प्राण इति ।
तस्यैव बीजात्मनो विकारविशेषत्वादितरेषां न ततोऽत्यन्तभिन्नतेत्याह –
तत्कार्येति ।
अन्तिमपदार्थं स्फुटयति –
अन्य इति ।
कुलधर्मो ग्रामधर्मो देशधर्मश्चेत्येते सर्वशब्देन गृह्यन्ते।
तेषामात्मनि तदज्ञानादेव कल्पितत्वं सदृष्टान्तं स्पष्टयति –
रज्ज्वामिति ।
आत्मनोऽधिष्ठानयोग्यतार्थं कल्पनाशून्यत्वमाह –
तच्छून्य इति ।
किमिति समुदायार्थः श्लोकानामुच्यते श्लोकान्तरेष्विव प्रत्येकं पदार्थव्याख्यानमेतेषु किं न स्यादित्याशङ्क्याऽऽह –
प्रत्येकमिति ॥२८॥